पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
[ सर्गः २
कुमारसंभवे

 गोतारमिति ॥ सुरसैन्यानां देवतासेनानां गोप्तारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय । 'पुरोऽव्ययम्' (पा.१।४।६७) इति गतित्वात् 'नमस्पुरसो- र्गस्योः' (पा.८।३।४०) इति सकारः । गां पृथ्वीं त्रायन्त इति गोत्रास्तान् भिनत्तीति गोत्रभिदिन्द्रो जयश्रियं बन्दीमिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात् प्रत्यानेष्यति प्रत्याहरिप्यति । तं स्रष्टुमिति पूर्वेण संबन्धः ॥ ५२ ॥

  वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः ।
  गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ॥ ५३ ॥

 वचसीति ॥ तस्मिन्बार्हस्पत्ये वचस्यवसिते परिसमाप्ते सति आत्मभूर्ब्रह्मा गिरं वाचं ससर्ज । जगादेत्यर्थः । सा गीः सौभाग्येन मनोहरत्वेन । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा.७१३।१९) इत्युभयपदवृद्धिः। गर्जिताद्गर्जितस्य वानन्तरं प्रवृत्तां वृष्टिं जिगाय जितवती । गर्जितपरत्वाद्वृष्टेरिव तद्विज्ञापनफलत्वाद्गिरः सुभगत्वमिति भावः ।। ५३ ॥

  संपत्स्यते वः कामोऽयं कालः कश्चित्प्रतीक्ष्यताम् ।
  न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥ ५४ ।।

 संपत्स्यत इति ॥ अयं वो युष्माकं कामो मनोरथः सेनानीरूपः संपत्स्यते सेत्स्यति । कश्चित्कियानपि कालः प्रतीक्ष्यताम् , तु किंतु तस्य सेनान्यः सिद्धौ विषय आत्मना स्वयं सर्गः सृष्टिरेव व्यापारस्तं न यास्यामि, नाहं स्रक्ष्यामीत्यर्थः ॥ ५४॥

 कुत इत्याशङ्कयाह-

  इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।
  विपवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥ ५५ ॥

 इत इति ॥ इतो मत्त एव प्राप्तश्रीलब्धोदयः स दैत्यस्तारकासुर इतो मत्त एव क्षयं नाशं नार्हति । तथा हि-अन्यो वृक्षस्तावदास्ताम् । विषस्य वृक्षो विषवृक्षोऽपि संवर्ध्य कुतश्चित्कारणात्सम्यग्वर्धयित्वा स्वयं छेत्तुमसांप्रतमनर्हः । 'असांप्रतम्' इत्यनेन निपातेनाभिहितत्वावृक्ष इति द्वितीयान्तो न भवति, अनभिहिते कर्मणि द्वितीयाभिधानात् । यथाह वामनः (काव्या.सू.५।२।२२)- 'निपातेनाप्यभिहिते कर्मणि न विभक्तिः, परिगणनस्य प्रायिकत्वात्' इति ॥५५॥


पाठा०-१ उपरते. २ तस्य. ३ या. ४ सिद्ध्ये.