पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
[ सर्गः २
कुमारसंभवे

  स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ।
  वाचस्पतिरुवाचेदं प्राञ्जलिजलजासनम् ॥३०॥

 स इति ॥ हरेरिन्द्रस्य । 'इन्द्रो दुश्च्यवनो हरिः' इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् , तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्विनेत्रम् , प्रसिद्धाञ्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालंकारः। स वाचस्पतिः। कस्कादित्वादलुक्सत्वे। षष्ट्याः पतिपुत्र-' (पा.८।३।५३) इत्यादिना सत्वमिति स्वामी,-तन्न; छन्दोविषयत्वात् । प्राञ्जलिः सन् । जलजासनं ब्रह्माणमिदमुवाच ॥३०॥

  एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् ।
  प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥३१॥

 एवमिति ॥ हे भगवन् षड्गुणैश्वर्यसंपन्न ! यदात्थ 'कृतव्यावृत्तयः परैः' (२।२७) इति यद्ब्रवीषि । 'ब्रुवः पञ्चानाम्' (पा.३।४।८४) इत्यादिनाहादेशः। 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा.३।३।१३१) इति वर्तमानप्रयोगः । वामनस्तु भ्रान्तोऽयं प्रयोग इत्याह-'आहेति भूते णलन्तभ्रमात्-' (काव्या.सू.५।२।४४) इति । आहेत्युपलक्षणम् । तदेव सत्यम् । नोऽस्माकं पदमधिकारः परैः शत्रुभिरामृष्टमाक्षिप्तम्। हे प्रभो! प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरूपः, सर्वान्तर्यामीत्यर्थः । कथं न ज्ञास्यसि न वेत्सि? वर्तमानेऽपि वचनभङ्गया भविष्यन्निर्देशः प्रसिद्धः। 'अपह्नवे ज्ञः' (पा.११३।४४) 'अकर्मकाच' (पा.१।३।२६) इत्यात्मनेपदविकल्पः ॥३१ ॥

 उक्तमेव प्रपञ्चयति-

  भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः ।
  उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥३२॥

 भवदिति ॥ भवतस्त्वत्तो लब्धेन वरेणोदीर्ण उद्धतः तारक इत्याख्या


पाठा०-१द्विनेत्रः. २ दशचक्षुःशताधिकम्. ३ यथा. ४ ज्ञास्यात प्रभुः. ५ त्वया दत्त; भवद्दत्त. टिप्प०--1 'ऋ गतौ इत्यस्य निष्ठा लिङ्सिचोरात्मनेपदम्-' इति विकल्पटूकत्वात्

'यस्य विभाषा' इतीडभावः' इति बालबोधिनी। 2 सेयं कथा महाभारतात् ( कर्णपर्वणस्त्रयस्त्रिंशाध्यायात् ) अनुसंधेया।