आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मौलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि, एकादशानामिति शेषः। मूर्धानः क्षत हुंकार शंसन्तीति तथोक्ताः, हुंकारक्षत्यनुमापका इत्यर्थः । हुंकारशस्त्रा हि रुद्रा इति भावः ॥ २६ ॥
लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरेः ।
अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २७ ॥
लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकारप्रबलतरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरुत्सर्गाः सामान्यशास्त्राणि ‘मा हिंस्यात्' इत्येवमादीनि । अपोद्यन्त एभिरित्यपवादैः 'गामालभेत' इत्यादिभिर्विशेषशास्त्रैरिव । किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः? कृतविषयसंकोचरूपबाधा इत्यन्यत्र । 'विषयसंकोच एव बाधः' इत्याचार्याः । निषेधशास्त्रस्यावैदिकहिंसापरिहारेण लौकिकमात्रे व्यवस्थापनाद्विषयसंकोच इत्य. लमतिगहनावगाहनेन ॥२७॥
तद्बूत वत्साः ! किमितः प्रार्थयध्वं समागताः ।
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।। २८ ॥
तदिति ॥ तत्तस्मात्कारणात् । हे वत्साः पुत्रकाः ! 'वत्सस्त्वर्भकपुत्राद्योवर्षे वत्सं तु वक्षसि' इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते। संभूयागताः समागता इतो मत्तः किं प्रार्थयध्वम् ? किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह-मयि लोकानां सृष्टिः । रक्षा युष्मास्ववस्थिता, अतस्तदर्थमपि नास्ति मदपेक्षेत्यर्थः ॥ २८ ॥
ततो मन्दानिलोद्भूतकमलाकरशोभिना ।
गुरुं नेत्रसहस्रेण नोदयामास वासवः ॥ २९ ॥
तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृहस्पतिम् । 'गुरूगीष्पतिपित्राद्यौ' इत्यमरः । मन्दानिलोद्धृतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्त्रेण नोर्दयामास प्रेरयामास । सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते ॥२१॥
पाठा०-१ न खलु स्थ बलोत्तरः. २ प्रार्थयध्वे. ३ भूतानाम्. ४ चोदयामास;
प्रेरयामास. ५ वृत्रहा.