पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[ सर्गः २
कुमारसंभवे

  यमोऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।
  कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ।। २३ ॥

 यम इति ॥ अस्तं नाशमिताः प्राप्ताः, अस्तमिति मकारान्तमव्ययम् । तस्य 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापनैः' (पा.२।१।२४) इति समासः। अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि । प्रागिति भावः । अस्मिन्दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका, तस्य यल्लाघवं क्लैब्यं तत्कुरुते । ‘अलातमुल्मुकं ज्ञेयम्' इति हलायुधः । 'निर्वाणोऽवाते' (पा.८१२५०) इति निपातनान्निष्ठानस्वम् । अत्रापि लाधवमिव लाघवमिति कल्पनान्निदर्शनालंकारः ॥ २३ ॥

  अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
  चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ २४ ॥

 अमी इति ॥ प्रतापक्षत्या तेजसां क्षयेण शीतला अमी आदित्याश्च । द्वादशेति शेषः । कथम् , केन हेतुनेत्यर्थः । चित्रन्यस्ताश्चित्रलिखिता इव । प्रकाममत्यन्तमालोकनीयतां दृश्यतां गताः प्राप्ताः? ॥ २४ ॥

  पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते ।
  अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ २५ ॥

 पर्याकुलेति ॥ मरुतां वायूनाम् । सप्तसप्तानामिप्ति शेषः । पर्याकुलस्वात्स्खलितगतित्वाद्धेतोर्वेगस्य भङ्गोम्भसां जलानां प्रतीपगमनात् , उत्तानावरोहादित्यर्थः । ओधस्य संरोधः प्रवाहप्रतिबन्ध इवानुमीयते ॥ २५ ॥

  आवर्जितजटामौलिविलम्बिशशिकोटयः।
  रुद्राणामपि मूर्धानः क्षतहुंकारशंसिनः ॥ २६ ॥


पाठा०-१ क्षितिशीतलाः. २ आयाताः. ३ दर्शिनः, दर्शनम्. ४ अहंकार. टिप्प०-1 ते च-'धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता दशमः स्मृतः। एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥' इत्यनेनोक्ताः। 2 सप्तमरुतस्तु-'आवद्धः प्रवहश्चैव संवहश्चोद्वहस्तथा। विवहाख्यः परिवहः परावह इति

क्रमात् ॥' इति ।