पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १७-२२]
३५
विफलत्वे को हेतुरिति देवेभ्यः प्रश्नः

  किमिदं द्युतिमात्मीयां न विभ्रति यथा पुरा ।
  हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥ १९ ॥

 किमिति ॥ 'वत्साः' इत्युत्तरश्लोकीय (२।२८) संबोधनमत्राप्यनुषञ्जनीयम् । हे वत्साः पुत्रकाः! हिमेन नीहारेण क्लिष्ट प्रकाशानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव । 'दीप्तिताराहुताशेषु ज्योतिः' इति शाश्वतः । वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युति न बिभ्रति । इदं किम् ? किंनिबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते ॥ १९ ॥

उक्तमेव प्रपञ्चयति सप्तभिः श्लोकैः-

  प्रशमादर्चिषामेतदद्गीर्णसुरायुधम् ।
  वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥ २० ॥

 प्रशमादिति ॥ अर्चिषां तेजसा प्रशमान्निर्वाणाद नुद्गीर्णसुरायुधम् । अनुदितचित्रप्रभमित्यर्थः । एतदृत्रस्य हन्तुरिन्द्रस्य कुलिशं वज्रम् । कुण्ठिता अश्रयो यस्य तत्कुण्ठिताश्रि कुण्ठितकोटीव लक्ष्यते दृश्यते ॥ २० ॥

  किं चायरिदुर्वारः पाणौ पाशः प्रचेतसः ।
  मत्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ २१ ॥

 किं चेति॥ किं च, अयमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । 'प्रचेता वरुणः पाशी' इत्यमरः। पाणौ पाशो रज्जुरायुधविशेषः। मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः। अत्र फणि निष्ठदैन्यस्य पाशेऽसंभवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः॥२३॥

  कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
  अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ २२ ।।

 कुबेरस्येति ॥ अपविद्धा त्यक्ता गदा येन सोऽपविद्धगदः । अत एवं भग्नशाखो द्रुम इव स्थितः कुबेरस्य बाहुर्मनःशल्यम् , दुःखहेतुत्वान्मनसः शल्यप्रायत्वमित्यर्थः । पराभवम् , शत्रुकृतमिति शेषः। शंसतीव कथयतीव, लक्षणयाऽनुमापयतीत्यर्थः। बाहौ मुख्यकथनस्यासंभवादिवशब्दोऽप्यत एव ॥२०॥


पाठा०-१ यथापुरम्. २ इमाम् ; इति. ३ प्रभावानि. ४ अनुदूर्णः, अनुगूर्ण,

५ कुण्ठितश्रीव. ६ अपि.