पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-६]
२९
तारकत्रस्तैः सुरैर्विधातुः संस्तवनम्

अर्थयुक्ताभिरित्यर्थः । 'धर्मपथ्यर्थन्यायादनपेते' (पा.४।४।९२) इति यत्प्रत्ययः। वाग्मिरुपतस्थिरे, तुष्टुवुरित्यर्थः । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम् ' (वा० ९१४) इत्यात्मनेपदम् ॥३॥

 स्तुतिप्रकारमाह 'नमः' इत्यादिभिर्द्वादशभिः श्लोकैः-

  नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
  गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥४॥

 नम इति ॥'हे भगवन्' इत्यध्याहार्य व्याख्येयम् । सृष्टेः प्राक् । 'अन्यारात्-' (पा.२।३।२९) इत्यादिनाऽञ्चत्तरपदयोगे पञ्चमी । केवलात्मन एकरूपाय । 'आत्मा वा इदमेक एवाग्र आसीत्' (ऐत० १११) इति श्रुतेः। 'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः' इत्यमरः । पश्चात्सृष्टिप्रवृत्तिकाले। विभज्यतेऽनेनेति विभागः। गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । 'गुणाः सत्त्वं रजस्तमः' इत्यमरः। भेदमुपाधिम् , स्रष्टत्वादिकमित्यर्थः। उपेयुषे प्राप्तवते । 'उपेयिवाननाश्वाननूचानश्च' (पा.३।२:१०९) इति निपातः । अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररूपिणे तुभ्यं नमः ! 'नमःस्वस्ति-' (पा.२।३।१३) इत्यादिना चतुर्थी। उक्तं च-'नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च। तमोरूपाय संहारे त्रिरूपाय स्वयंभुवे ॥' इति ॥ ४॥

  यदमोघमपामन्तरुतं बीजमज ! त्वया ।
  अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥५॥

 यदिति ॥ न जायत इत्यजः, हे अज! अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुतं निक्षिप्तम् । 'मुक्तम्' इति पाठे विसृष्टमित्यर्थः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः। अतस्ते बीजाचराचरं स्थावरजंगमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् , उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । 'अदश्चराचरं विश्वं प्रसवस्तस्य गीयते' इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते, लोके इति शेषः । अत्र मनुः ( १।८-९)-अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥' इति ॥ ५ ॥

  तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।
  प्रलयस्थितिसर्गाणामेकः कारणतां गतः॥६॥

 तिमृभिरिति ॥ एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्वैगुण्यमयीभि-