पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
[ सर्गः २
कुमारसंभवे

हरिहरब्रह्मस्वरूपाभिर्महिमानं निजशक्तिमुदीरयन्विजम्भयन् प्रलयस्थितिसर्गा- णामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं 'पश्चाबेदमुपेयुषे' (२।४) इत्यस्य विवरणमतो न गतार्थत्वदोषः ॥ ६॥

 भूतसृष्टिकर्तृत्वमुक्त्वा मिथुनसृष्ट्यर्थ मूर्तिमतो ब्रह्मणो भेदमाह-

  स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
  प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥७॥

 स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रोपुंसौ। अचतुर-' (पा.५१४।७७) इत्यादिनाच्ऽप्रत्ययान्तो निपातः । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ। 'आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि' इति विश्वः। तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः। सृज्यत इति सर्गस्तस्य, निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । 'पिता मात्रा' (पा.१।२।७०) इत्येकशेषः । स्मृतौ । वृद्धैरिति शेपः अत्र मनुः ( १:३२ )-'द्विधा कृत्वात्मनो देह- मर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥' इति ॥७॥

  स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।
  यो तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥८॥

 स्वकालेति ॥ स्वकालस्य परिमाणेन 'चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते' इत्युक्तरूपेण व्यस्ते विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि 'अचतुर-' (पा.५।४।७७) इत्यादिसूत्रेण रात्रौ च दिवा च रात्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि 'दोषामन्यमहः, दिवामन्या रात्रिः' इत्यादौ कर्मवदत्रापि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी । यदाहुः (मनु. ११५२)-'यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ॥' इति । एतच्च दैनंदिनसृष्टिप्रलयाभिप्रायकं, महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात् ॥८॥


पाठा०-१ भावौ. २ परिणामेन. ३ यो स्वप्नबोधौ तावेव; स्वप्नावबोधौ

भूतानां तावेव.