द्वितीयः सर्गः
तस्मिन्विप्रकृताः काले तारकेण दिवौकसः ।
तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥१॥
तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुताः। दिवमोकः स्थानं येषां ते दिवौकसो देवाः । 'दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः। तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साहयतेश्चौरादिकात्क्विप् । 'नहिवृतिवृषि-' (पा.६।३।११६) इत्यादिना पूर्वपदस्य दीर्घः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टाबन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साड्रूपत्वाभावात् 'सहेः साडः सः' (पा.८।३।५६) इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् 'ओर्गुणः' (पा.६१४११४६) इति गुणो न। धाम स्थानं ययुः, ब्रह्मलोकं जग्मुरित्यर्थः ॥ १॥
तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् ।
सरसा सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ २ ॥
तेषामिति ॥ परिम्लाना परिक्षीणा मुखश्रीर्मुग्वकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा । सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितिमान्सूर्य इवाविरभूत् , प्रकाशोऽभूदित्यर्थः। 'प्रकाशे प्रादुराविः स्यात्' इत्यमरः । सूर्योपमानेन तेषां म्लानिहरत्वं सूचितम् । अत्रोपमालंकारः। तल्लक्षणं तु-'स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा॥' इति ॥२॥
अथ सर्वस्व धातारं ते सर्वे सर्वतोमुखम् ।
वागीशं वाग्मिराभिः प्रणिपत्योपतस्थिरे ॥३॥
अथेति ॥ अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् , चतुर्मुखमित्यर्थः। वाचां विद्यानामीशं वागीशं सर्वस्य जगतो धातारं स्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः,