पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५३-५६]
२५
शिवस्य तपोर्थं हिमाचलगमनम्

क्वणन्तो गायन्तः किंनरा यस्मिंस्तत्तथोक्तम् । किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास, कुत्रचित्प्रस्थ उवासेत्यर्थः । 'उपान्वध्याङ्सः' (पा.१॥४१४८) इत्याधारस्य कर्मत्वम् । 'प्रस्थोऽस्त्री सानुमानयोः' इत्यमरः ॥ ५४ ॥

गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ।। ५५ ॥

 गणा इति ॥ गणाः प्रमथगणाः । 'गणाः प्रमथमंख्यौघाः' इति वैजयन्ती। नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । 'नमेरुः सुरपुंनागः' इनि विश्वः । स्पर्शवतीः सुखस्पर्शाः, मृद्वीरित्यर्थः। प्रशंसायां मतुप्। भूर्जत्व वो भूर्जवल्कलानि दधानाः, वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैविच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौपधिविशेषः । शिलायाः 'स्त्रीभ्यो ढक्' (पा.४।१।१२०) इति भवार्थे ढक् । 'शिलाजतु च शैलेयम्' इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेपु निषेदुः, उपविविशुरित्यर्थः ॥ ५५ ॥

तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कथंचिद्गवयैर्विविग्नैरसोहसिंहध्वनिरुन्ननाद ॥ ५६ ॥

 तुषारेति ॥ तुषारसंघाता हिमवनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्भीतैर्गोसदशमृगविशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान्वृषभोऽसोढः सिंहानां ध्वनिर्येन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद, जगर्जेत्यर्थः । स्वभावोक्तिरलंकारः । तदुक्तम् –'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ॥ ५६ ॥


पाठा०--१ वसानाः, टिप्प०-1 'रमणीयवस्तुसंनिधानेऽपि समाधिभङ्गशंका नाभूदिति द्योत्यते । उक्तं च

शाकुन्तले ( ११२ ) 'प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्कांक्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी ।।' इति नारायण० ।