पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
[ सर्गः १
कुमारसंभवे

तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ॥५७॥

 तत्रेति ॥ तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता, दातेत्यर्थः । अष्टौ मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । 'भूतार्कचन्द्रयज्वानो मूर्तयोऽष्टौ प्रकी- र्तिताः' इति । तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे । 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्तकामत्वाकेनापीत्युक्तम् ॥ ५७ ॥

अनर्ध्यमर्ध्येण तमद्रिनाथः स्वौकसामर्चितमर्चयित्वा ।
आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥५८॥

 अनर्घ्यमिति ॥ अद्रीणां नाथोऽद्रिनाथो हिमवान् , अर्धं मूल्यमर्हतीत्यर्यः। 'मूल्ये पूजाविधावर्धः' इत्यमरः । दण्डादिभ्यो यः' (पा.५:१।६६) इति यप्रत्ययः। अर्ध्यो न भवतीत्यनर्ध्यस्तमनर्ध्यम् , अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । 'मतिबुद्धिपूजार्थेभ्यश्च' (पा.३।२।१८८) इति वर्तमाने क्तः। 'क्तस्य च वर्तमाने' (पा.२।३।६७) इति षष्ठी। तमीश्वरमर्ध्येण पूजार्थोदकेन । 'पादार्घाभ्यां च' (पा.५।४।२५) इति यत्प्रत्ययः। 'षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि' इत्यमरः । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां समेत प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास ॥ ५८ ॥

प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने ।
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥५९॥

 प्रत्यर्थीति ॥ गिरिशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिपक्षभूतामपि। सुप्सुपेति


पाठा०-१ अथ. २ समृद्धम्. टिप्प०-1 कालिदासकृतमष्टमूर्तिवर्णनं यथा शाकुन्तले (१११)-'या सृष्टिः सृष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षामिः

प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः' इति ।