पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
[ सर्गः १
कुमारसंभवे

 अयाचितारमिति ॥ अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । तथा हि-साधुः सज्जनः । 'साधुर्वार्धषिके चारौ सजने चाभिधेयवत्' इति विश्वः । अभ्यर्थनाभङ्गभयेन याजावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्य- मवलम्बते ॥ ५२॥

 न च तथैव स्थितः किं तूपायान्तरं चिन्तितवानिति वक्तुं प्रस्तौति-

यदैव पूर्वे जनने शरीरं सा दक्षरोपात्सुदती ससर्ज ।
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥५३॥

 यदेति ॥ शोभना दन्ता यस्याः सा सुदती । 'वयसि दन्तस्य दतृ' (पा.५।४।१४१) इति दत्रादेशः। 'उगितश्च' (पा.४।१।६) इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि। 'पूर्वादिभ्यो नवभ्यो वा' (पा. ७।१।१६) इति स्मिन्नादेशविकल्पः। पूर्वज्वलने' इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ। यदा यस्मिन्काले दक्षरोपाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशूनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् , अपरिग्रहोऽपत्नी. कोऽभूत् रूयन्तरं न परिजवाहेत्यर्थः । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः ॥ ५३॥

स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मुगनाभिगन्धि किंचित्क्वणत्किनरमध्युवास।। ५४॥

 स इति ॥ कृत्तिवासाश्चर्माम्बरः । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । यतात्मा नियतचित्तः स पशुपतिस्तपसे तपोर्थं गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् , कस्तूरीमृग- संचारादिति भावः । 'मृगनाभिर्मगमदः कस्तूरी चाथ कोलकम्' इत्यमरः ।


पाठा०-१ खयमुत्ससर्ज. २ ततःप्रभृति. ३ जितात्मा. टिप्प.---] 'अत्र “गतिबुद्धि-" (पा.११४१५२) इत्यादिसूत्रे ग्रहेरनुपादानादेव

प्रतिग्राहयितुमिति द्वितीयानुपपत्तेः प्राप्त्यर्धत्वमेव युक्तम् । तत्तु प्रत्युपसर्गादिति दक्षिणावर्तः । नाथस्तु निरुपसर्गस्यापि ग्रहे: प्राप्त्यर्थत्वमुक्तवान्' इति नारायण० ।