पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २८-३३]
१५
पार्वत्या बालक्रीडावर्णनम्

मित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः। पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधि तृणविशेषमारमभासः स्वदीप्तय इव प्रपेदिरे। उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते ॥३०॥

असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ क्यः प्रपेदे ॥३१॥

 असंभृतमिति ॥ अथ सा पार्वती। अङ्गयष्टेरसंभृतमयनसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यति- रिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशवात्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रसाध्यन्ते माद्यन्ते काम्यन्से चेति भावः । अत्र द्वितीय- पाद मासवरूपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः। तदुक्तम्- (अलं) 'कारणाभावे कार्योत्पत्तिविभावना' इति । प्रथमतृतीययोस्त्वारोप्यमाण- योर्मण्डनमदनास्त्रयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् ॥ ३१ ॥

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरस्रशोभि वपुर्विमक्तं नवयौवनेन ॥३२॥

 उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । स्तनजघनादिसंस्थानमित्यर्थः। तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया, शला- कयेत्यर्थः । 'तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः' इति विश्वः। उन्मी- लितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् , रूपमिति यावत् । चित्रमालेख्यमिव । सूर्याशुभिभिन्नं विकसितमरविन्दं पद्ममिव । चतस्रोऽस्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वतःसिद्धस्यैवाङ्गसौष्टवस्य यौवन- प्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ॥ ३२ ॥

 देवतानां रूपं पादाङ्गुष्टप्रभृति वर्ण्यते, मानुषाणां केशादारभ्येति धार्मिकाः । संप्रति सप्तदशभिः श्लोकैः पार्वत्याः पादादिकेशान्तवर्णनमारभते-

अभ्युनताङ्गष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजहतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥३३॥


पाठा०-१ साधु. २ अत्युन्नता.