पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
[ सर्गः १
कुमारसंभवे

 अभ्युन्नतेति ॥ अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणानिर्भर न्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । 'रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु' इति शाश्वतः । उद्विरन्तौ वमन्तौ, बहिर्निःसारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेगौंणार्थत्वान्न ग्राम्यतादोषः, प्रत्युत गुण एव । यथाह दण्डी (कान्या. १।९५)-'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षा विगाहते ॥' इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् , संचारिणीमित्यर्थः। स्थलारविन्दश्रियमाजहतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः-'यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निगूढगुल्फो निहतौ सा स्यान्नृपतिसंमता ॥ इति । अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्द श्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालंकारः । सा च संबन्धेऽसंबन्धलक्षणातिशयोक्त्यनुप्राणिता; अव्यवस्थाम्' इत्यनेन स्थलारविन्दस्य स्थैर्यसंबन्धेऽप्यसंबन्धाभिधानात् । निदर्शनालक्षणं तु-'असंदर्मयोगादुपमानोपमेययोः। प्रतिबिम्बक्रिया गम्या यत्र सा स्तान्निदर्शना ॥' इति ॥ ३३ ॥

सा राजहंसैरिव संनंताङ्गी गतेषु लीलाश्चितविक्रमेषु ।
व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नपुरसिञ्जितानि ।। ३४ ॥

 सेति ॥ प्रत्युपदेशलुब्धैः । 'गुरुशुश्रूपया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते ॥' इति न्यायादिति भावः । तदेव व्यनक्ति- नूपुरसिञ्जितान्यादित्सुभिगदातुमिच्छुभिः, मञ्जीरसिञ्जितमञ्जुकूजितोपदेश- मिच्छद्भिरित्यर्थः । राजहंसैः । संनताङ्गी, कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । 'अञ्चेः पूजायाम्' (पा. ७।२।५३) इतीडागमः । 'लीलाविलासक्रिययोः' इत्यमरः । गतेषु विषयेषु व्यनीयतेव विनीता किमु ? अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा ॥ ३४ ॥

वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुलावण्य उत्पाद्य इवास यत्नः॥३५॥

 वृत्तेति ॥ वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे, गोपुच्छाकार इत्यर्थः । वृत्ते च


पाठा०-१ संनतांसा. २ विभ्रमेषु. ३ लब्धैः.