दुर्धरं दुर्धर्षणीयम् , दुःसहमिति यावत् । तथाभूतं यद्धाम तेजस्तस्य धाम स्थानम् । अत एव प्रकर्षेण द्योतते शोभते । कर्तरि ल्युट । अथवा नन्द्यादि- स्वाल्युः । तथाभूतः स्मरशत्रुसूनुः कुमारः । प्रभायाः कान्त्याः प्रभु्र्देवः सूर्य इव । रेजे बभौ । यथा मेघजनितदुर्दिनोन्मुक्तोऽम्बरमणिः शोभते, तथा तारकविकिर्ण- सायकजनितदुर्दिनोन्मुच्यमानोऽसौ कुमारो रराजेत्यर्थः ॥ २३ ॥
तत्राथ दुःसहतरं समरे तरस्वी
धामाधिकं दधति धीरतरं कुमारे ।
मायामयं समरमाशु महासुरेन्द्रो
मायाप्रचारचतुरो रचयांचकार ॥ २४ ॥
तत्रेति ॥ अथानन्तरं तत्र कुमारे धीरतरं गम्भीरतातिशयशालि धाम तेजोऽधिकं दुःसहतरं दधति सति । 'अयं बालोऽपि मदपेक्षयाधिकतरधामवान् , अतः शस्त्रयुद्धेन नैव धर्षणीयः' इति मनोविपयविचारकर्तृकता व्यज्यते । समरे युद्धे तरस्वी बलवान्महानसुराणामिन्द्रस्तारको मायामयं मायारूपं समरं युद्धमाशु सत्वरं रचयांचकार निर्ममे । शस्त्रैरधर्षणीयोऽयं मायाप्रधानैरस्त्रैः पराजयं प्राप्स्य तीति बुद्धचा मायारचनापरो बभूवेत्यर्थः । यतो माग्राप्रचारे मायानिर्माणे चतुरः कुशलः ॥ २४ ॥
अह्वाय कोपकलुषो विकटं विहस्य
व्यर्तां समर्थ्य वरशस्त्रयुधं कुमारे ।
जिष्णुर्जगद्विजयदुर्ललितः सहेलं
वायव्यमस्रमसुरो धनुषि न्यधत्त ॥ २५ ॥
अह्नायेति ॥ जिष्णुर्जयनशीलः, अत एव जगतां विजयेन दुर्ललित उद्भटः । तथा कोपेन क्रोधेन निमित्तेन कलुषोऽनच्छः, आविल इति यावत् । 'कलुषो- ऽनच्छ आविलः' इत्यमरः । असुरस्तारको विकटं करालं यथा स्यात्तथा विहस्य, 'इदानीं त्वां जेष्यामि' इति, 'कुतो गमिष्यसि' इति च विकटहासेन व्यज्यते ।
पाठा०--१ तरसा. २ धामाधिकं दधति धीरतरे; धामादधादधिकधीरतरः. ३ प्रपञ्च. ४ व्यर्थम्. ५ जिष्णौ.