पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
[ सर्गः १७
कुमारसंभवे

योधास्तारकपक्षवर्तिनो येन । एवंभूत ईशसूनुः कुमारः कुतोऽपि कुत्रापि । सप्त- म्यर्थे तसिः । दृष्टेर्विषयं गोचरं न जगाम । तारकपरिक्षिप्तशितशरगणैः सर्वत आच्छादितत्वात् 'कुत्रासौ कुमारो गतः' इति चिन्तयतां सैनिकानां दृगिन्द्रिय- ग्रहणविषयतासंबन्धावच्छिन्नकोटिगणनाबहिर्भूतोऽभूदिति भावः । 'विषयो गोचरे देशे' इति मेदिनी ॥ २१ ॥

  देवेन मन्मथरिपोस्तनयेन गाढ-
   माकर्णकृष्टमभितो धनुराततज्यम् ।
  बाणानसूत निशितान्युधि यान्सुजैत्रा-
   स्तैः सायका बिभिंदिरे सहसा सुरारेः ॥२२॥

 देवेनेति ॥ मन्मथरिपोः शिवस्य तनयेन पुत्ररूपेण देवेन कुमारेण गाढं दृढं यथा तथाऽऽकर्णकृष्टं कर्ण मर्यादीकृत्य कृष्टमाकृष्टम् । तथाऽऽततज्यं विस्तृतमौर्वीकं धनुः कर्तृ । युध्यायोधनेऽभितः सर्वतः सुतरां जैत्राञ्जयनशीलान्निशितांस्तीक्ष्णा- न्यान्बाणानसूत, कुमाराकृष्टाद्धनुषः सकाशान्निशिता ये बाणा निःसृता इत्यर्थः । तैर्वाणैः कर्तृभिः । सुरारेस्तारकस्य सायका बाणा विभिदिरे भिन्नाः । कर्मणि लिद। अनेन वाच्येन यथा यामिनीनामन्धतमसमम्बरमणिकिरणसमूहेन दूरीक्रियते, तथा कुमारनिक्षिप्तप्रज्वलद्धोरायमाणसायकनिकरेण तारकनिक्षिप्तसायकजनित- मन्धतमसं निराकृतमित्युपमा व्यज्यते । अतोऽत्र वस्तुनामालंकारध्वनिः ॥ २२ ॥

  रेजे सुरारिशरदुर्दिनके निरस्ते
   सद्यस्तरां निखिलखेचरखेदहेतौ ।
  देवः प्रभाप्रभुरिव स्मरशत्रुसूनुः
   प्रद्योतनः सुघनदुर्धरधामधामा ॥ २३ ॥

 रेज इति ॥ निखिलाः समस्ता ये खेचराः सूर्यादयस्तेषां खेदस्य शरीरसंबन्ध- जनितदहनहेतुकदुःखस्य हेतौ निदाने सुरारेस्तारकस्य ये शरास्तैर्यद्दुर्दिनकं मेघ- च्छन्नदिवसस्तस्मिन्सद्यस्तरामतिसत्वरं निरस्ते दूरीकृते सति । सुतरां घनं सान्द्रं

पाठा०-१ विविधान्. २ विजैत्रै; विजैत्रान्. ३ विविदिरे. ४ सद्यः स्वयम्.

५ खिन्नदेहे. ६ देवप्रभोः प्रभुः. ७ धाम.