पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५२
[ सर्गः १७
कुमारसंभवे

पलायनं सध्यापारपदवाच्यमित्यस्याः शङ्कायाः पूर्वश्लोके तापसपदेन निवर्ति- सत्वात्॥ १४ ॥

 इदानीं हितोपदेशव्याज्ञेन पलायनविधिमुपदिशति--

  सम्यक्स्वयं किल विमृश्य गिरीशपुत्र !
   जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु |
  एष स्वयं पयसि मज्जति दुर्विगाह्ये
   पाषाणनौरिव निमज्जयते पुरा त्वाम् ॥ १५॥

 सम्यगिति ॥ भो गिरीशपुत्र शिवपुत्र! त्वं सम्यक्साधु यथा स्यात्तथा विमृश्य विचार्य । साधुविचारणमत्रोदर्कविचारणम । तत्कृत्वास्य पुरोवर्तिनो जम्भद्विष इन्द्रस्य प्रतिपक्षं मां स्वयं किलात्मनैव, न तु परोक्षेण; प्रयोज्यकर्त्रेति यावत् । आशु सत्वरं जहिहि नाशय । साधु विचार्यैव मदीयहननकृत्याश्रयो भव । 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥' (किरात० २।३० ) इति न्यायादिति भावः । प्रस्तुतेऽविमृश्य करणेन कैव विपत्तिरित्याशङ्क्याह-एष इति ॥रे शिशो! एष जम्भद्विट् पुराग्रे दुःखेन कृच्छेण विगाह्य उत्तार्ये पयसि नीरे। मदीयनाराच- वर्षणरूप इत्यर्थः । पाषाणनौरिव प्रस्तरतरिरिव स्वयं मज्जति मङ्क्ष्यति । त्वां च निमज्जयते, निमज्जयित्यत इत्यर्थः । यावत्पुरा-' (पा. ३।३।४ ) इति भविष्य- दर्थे लट् । यथा पाषाणघटितनौका पयःपतिता मज्जति, आत्मोपर्यारूढांश्च निमज्जयति, तथायमिन्द्रोऽपि मदीयघोरनाराचनिचयरूपजलेनावृतः सन्मरिष्यति। स्वात्माश्रयीभूतं त्वामपि तत्र पातयित्वा मारयिष्यतीति वाच्यार्थः । अत आत्मजीवनाभिलापुकत्वपक्ष एतदाश्रयीभूतत्वं विहाय वृद्धयोर्मातापित्रोः समीप- मेव गन्तव्यम् । तेनेहामुत्र च महान्ति श्रेयांसि भविष्यन्तीति व्यङ्ग्यार्थः । तेनात्रालंकारेण वस्तुध्वनिः ॥ १५ ॥

  इत्थं निशम्य वचनं युधि तारकस्य
   कम्प्राधरो विकचकोकनदारुणाक्षः।

पाठा०-१ दुर्विगाह; दुर्विगाढे.