पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १२-१४]
३५१
कुमारं प्रति तारकस्य सगर्ववचनम्

मुञ्चेत्यर्थः । अथ च त्रिदिवेन्द्रकार्यान्मदीयवधरूपमहेन्द्रविधेयाद्विरम, अनुद्युक्तो भवेत्यर्थः । 'व्याङ्परिभ्यो रमः' (पा. १|३|८३ ) इति परस्मैपदम् । नन्वनेक- साधनकर्माश्रयीभूतत्वेन त्वदीयवधं चिकीर्पुरहं कथं विरमामीत्याशङ्कर न हि तव साधनानि मयि विषये परिपक्त्रिमाणि भविप्यन्तीत्याह-अतीव बालस्य भवतः संबन्धिनोः कोमलभुजयोर्बालत्वादतिशयपेलवबाह्वोरतुलं बहुभारभूतैः, दुर्वहैरित्यर्थः । अत एवात्र मय्यनुचितैरयोग्यैः शस्त्रैः कृपाणप्रभृतिभिः किम् ? अपि तु न किमपीति भावः ॥ १३ ॥

  एवं त्वमेव तनयोऽसि गिरीशगौर्योः
   किं यासि कालविषयं विषमैः शरैर्मे ।
  सङ्ग्रामतोऽपसर- जीव पितुर्जनन्या-
   स्तूर्ण प्रविश्य वरमङ्कतलं विधेहि ॥ १४ ॥

 एवमिति ॥ रे शिशो! एवं नाम मद्विषयको यो दोर्दर्पस्तस्याङ्गीकारे रसिकः, त्वमिति शेषः । ‘एवं प्रकारोपमयोरङ्गीकारावधारणे' इति विश्वः । विषमैर्दुःसहैमें मम शरैर्बाणैः कृत्वा कालविषयं दण्डधरदेशम् , संयमिनीं पुरी- मित्यर्थः । किं किमर्थं यासि प्राप्नोषि ? 'नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । ननु कालविषयप्राप्तौ कैव नः खलु वीराणां हानिरित्याशङ्कयाह-यतो गिरीशगौर्योः शिवपार्वत्योः । अत्र गिरीशस्याभ्यर्हितत्वाद्ववचोऽपि पूर्वनिपातः । त्वमेव तनयोऽसि पुत्रोऽसि । अतिकृच्छूलब्धैकपुत्रस्य वृद्धस्य तनयकर्मककाल- विषयप्राप्तिरतिदुःखावहा भवतीति भावः । एतेन मया सह भवता न कदापि योद्धव्यमिति व्यज्यते । तर्हि किं कर्तव्यं मयेत्यत्राह-सङ्ग्रामत इति ।। रे शिशो! सङ्ग्रामतः समरसकाशादपसर पलायस्व, मदग्रे मा तिष्टेत्यर्थः । अत एव जीव प्राणान्धरस्व, इतः पलायनमेव तव परमं जीवातुरिति भावः । ननु पलायनपूर्वकजीवनेन कः पुरुषार्थो भवित्यतीत्यत आह-पितुरिति ॥ पितुर्जन- कस्य तथा जनन्या मातुश्च ।अङ्कतलमुत्सङ्गतलं तूर्णं शीघ्रं प्रविश्योपविश्य वरं श्रेष्ठम् , कृतार्थमिति यावत् । विधेहि कुरु । पुत्रस्यायमेव परमो धर्मों यन्माता- पित्रोर्येन केनापि सध्यापारेण चित्तस्य । परितोषकृत्याश्रयो भवति । कथं सङ्ग्रामत

पाठा०-१ एकः. २ एकतनयः, ३ तत्रासतः, ४ पूर्णम्.