एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १५-१७]
३५३
कुमारस्य तारकाय समर आह्वानम्
क्षोभात्रिलोचनसुतो धनुरीक्षमाणः प्रोवाच वाचमुचितां परिमृश्य शक्तिम् ॥१६ ॥ इत्थमिति ॥ युधि सङ्ग्रामे स्थितस्य तारकस्य संबन्धीत्थमेवंभूतं वचनं निशम्य श्रुत्वा क्षोभात्क्रोधावेतोः कम्प्रः कम्पनशीलोऽधरोऽधरोष्ठो यस्य । क्रोध- वशादधरविस्फुरणं लोकप्रसिद्धमेव । तथा विकचकोकनदवद्विलसद्भक्तोत्पलवदरुणे शोणिते अक्षिणी नेत्रे यस्य । क्रोधवशादरुणनेत्रत्वमपि प्रसिद्धमेव । एवंभूतस्त्रि- लोचनसुतः कुमारः शक्तिमात्मीयवीर्यवैभवं परिमृश्य तुलयित्वा, मदीयवीर्या- पेक्षया किमेतदीयवीर्यमित्यनादरपूर्वकमात्मीयशक्तेराधिक्यं परामृश्येत्यर्थः । धनु- रीक्षमाणः पश्यन्सन् । अनेन त्वां क्षणादेव निहन्मि, सावधानो भव, मदीयै- तद्धनुरग्रे कुतो यास्यसि ?' इति व्यज्यते । तेन वस्तुना वस्तुध्वनिः । उचितां योग्यां वाचं वचनं प्रोवाच प्रोचे ॥ १६ ॥
दैत्याधिराज ! भवता यदवादि गर्वा- त्तत्सर्वसप्युचितमेव तवैव किंतु । द्रष्टास्मि ते प्रवरबाहुबलं बरिष्ठं शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ॥ १७ ॥ दैत्येति ॥ भो दैत्यानामधिराज तारकसंज्ञक महाराज ! भवता त्वया गर्वा- द्धेतोर्यदवादि 'रे शंभुतापस-' ( १७.१३) इत्यादिना यदुक्तं, तत्सर्वमपि तवोचितमेव योग्यमेव । अभिमानिनो महाराजस्य तव बालत्वाद्वराकीभूतमदवज्ञा योग्यैव । ननु मदुक्त्यौचित्याज्ञानवतस्तव कथमयं सङ्ग्रामकरणसमारम्भ इति चेत्तत्राह-किंत्विति ॥ किंतु वरिष्ठमतिशयश्रेष्ठं ते त्वत्संबन्धि प्रवरौ प्रकृष्टौ श्रेष्ठौ यौ बाहू भुजौ तयोर्बलं वीर्यमेव द्रष्टास्मि द्रक्ष्यामि । त्वदीयपराजयं कृत्वा मदीयो विजयः स्यादित्यभिलाषे न मम तात्पर्यम्, किंतु लोकारोप्यमाणवीरता- श्रयीभूतेन मया त्वदीयवीरतावलोकनमेव युद्धकरणे तात्पर्यम् । वस्तुतस्तु मयि वीरत्वासंभवात्त्वया सह युद्धकरणानौचित्येऽपि तत्र प्रवृत्तिः केवलं बालत्वजनित- बालिशत्वमेवोद्भावयति । अतोऽपि भवता क्षन्तव्यम् । 'जनक इव शिशुत्वेऽसु- प्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः' इत्यादिन्यायादिति भावः ।
पाठा ० - १ कोपात्. २ परिमृज्य. ३ यदवोचि.
२३ क० सं०
२३ क० सं०