पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
[ सर्गः १७
कुमारसंभवे

विश्वः । रणान्ते सङ्ग्राममध्ये सद्यः सपद्यलमतिभयेन कणशो विचिच्छिदुर्बिभिदुः । कणश इति 'बह्वल्प-' ( पा. ५।४।७२) इति शस् ॥ ३ ॥

  तान्प्रज्वलत्फलमुखैर्विर्षमैः सुरारि-
   नामाङ्कितैः पिहितदिग्गगनान्तरालैः ।
  आच्छादितस्तृणचयानिव हव्यवाह-
   श्चिच्छेद सोऽपि सुरसैन्यशराञ्शरौघैः ॥ ४ ॥

 तानीति ॥ सोऽपि तारकोऽपि प्रकर्षेण ज्वलन्ति दीप्यमानानि फलानां फलकानाम् , अयोनिर्मितपुरोभागानामिति यावत् । 'फलं हेतुकृते जातीफले फलकसस्ययोः' इति मेदिनी । मुखान्यग्राणि येषाम् । अत एव विषमैर्दुःसहैः । तथा सुरारिनाम्ना तारक इति वर्णपाठ्याङ्कितैर्युक्तः । तथा पिहितमाच्छादितं दिशां गगनस्याम्बरस्य चान्तरालं मध्यं यैस्तथाभूतैः शरौघैर्बाणसङ्घैः कृत्वा तानद्वितीयान् सुरसैन्यस्य देवसैन्यस्य शरान् । आच्छादित उपर्यावृतो हव्यवाहोऽग्निस्तृणचयानिव घासराशीनिव । चिच्छेद, ज्वालयति स्मेत्यर्थः । हव्यवाहस्य तृणचयभस्मीकरणे यावान्प्रयत्न उद्भवति तावानेव सुरशरभस्मसात्करणे । इत्यतोऽसुरबाणानां सामर्थ्यातिशयो ध्वन्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४ ॥

  दैत्येश्वरो ज्वलितरोषविशेषभीमः
   सद्यो मुमोच युधि यान्विशिखान्सहेलः।
  ते प्रापुरुद्भटभुजंगमभीमभावं
   गाढं बबन्धुरपि तांस्त्रिदशेन्द्रमुख्यान् ॥५॥

 दैत्येश्वर इति ॥ ज्वलितः प्रदीप्तो यो रोषः क्रोधः । 'कोपक्रोधामर्षरोषप्रतिधाः' इत्यमरः । तस्य विशेष आधिक्यं तेन भीमो घोरो दैत्येश्वरस्तारकः । युधि युद्धविषये सहेलः किमेतद्युद्धमित्यनादरसहितः सन् । यान्विशिखान्बाणान् । 'विशिखो लोमशे शरे' इति विश्वः । मुमोच विससर्ज । ते शराः सद्यः सपद्युद्भटा

पाठा०-१ ते; तैः. २ विशिखैः सुरारिम् ; समरेऽसुरारिम्. ३ प्राच्छादयंस्तृणचयैरिव. ४ हव्यवाहम्. ५ सहेलम्. ६ बाढम्. ७ त्रिदिवेन्द्र.