पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४-७]
३४७
कुमारदृष्टिप्रपाते नागपाशबन्धोन्मोचनम्

विकटा ये भुजंगमाः सर्पाः, भीमा भयानकास्तदुभयभावं तदुभयत्वं प्रापुः । सत्यपि भुजंगमत्वे भीमत्वस्यैच्छिकत्वात्पृथग्व्यपदेशः । अथ च त्रिदशेन्द्रमुख्यानिन्द्रप्रभृतींस्तान्देवान्गाढं दृढं यथा तथा बबन्धुरपि । अपिरत्र प्राप्तिक्रियापेक्षया समुच्चयार्थः । 'अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये' इति विश्वः । इन्द्रप्रभृतयो देवास्तारकोन्मुक्तनागपाशबद्धा बभूवुरित्यर्थः ॥ ५ ॥

  ते नागपाशविशिखैरसुरेण बद्धाः
   श्वासानिलाकुलमुखा विमुखा रणस्य ।
  दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
   सूनोः समीपमगमन्विपदन्तहेतोः ॥ ६ ॥

 त इति ॥ असुरेण तारकेण नागपाशविशिखैर्नागपाशरूपबाणैः कृत्वा बद्धाः । अत एव श्वासानिलैर्निःश्वासपवनैराकुलानि व्याप्तानि मुखानि येषाम् । अत एव रणस्य विमुखाः पराङ्मुखाः, भीतस्य च रणवैमुख्यं नानुचितमिति भावः । बलरिपुप्रमुखा इन्द्रप्रभृतयो दिङ्नायका अष्टदिगधिपाः, कर्तारः। विपदोऽन्तो नाशः स एव हेतुः कारणं तस्मात्स्मरारिसूनोः कुमारस्य समीपं संनिधिमगमन्प्रापुः ॥ ६ ॥

  दृष्टिप्रपातवशतोऽपि पुरारिसूनो-
   स्ते नागपाशघनबन्धविपत्तिदुःखात् ।
  इन्द्रादयो मुमुचिरे स्वयमस्य देवाः
   सेवां व्यधुर्निकटमेत्य महाजिगीषोः ॥ ७ ॥

 दृष्टीति ॥ त इन्द्रादयो देवाः पुरारिसूनोस्त्रिपुरशत्रुपुत्रस्य दृष्टिर्नेत्रम् । 'स्त्रियां दृष्टिः स्त्रियां बुद्धौ लोचने दर्शनेऽपि च' इति विश्वः । तस्याः प्रपातः पतनं तस्य वशतो वशेन प्रभुत्वेन, प्रभावेणेति यावत् । 'वशं मिथ्याप्रभुत्वयोः' इति विश्वः । नागपाशेन घनो दृढो बन्धो बन्धनमेव विपत्तिस्तेन यद्दुःखं ततस्तस्मान्मुमुचिरे मुक्ताः । अथ च महाजिगीषोरस्य कुमारस्य स्वयमात्मना, न तु परोक्षेण निकटं सांनिध्यमेत्यागत्य सेवां सेवनम् । स्तुतिमिति फलितोऽर्थः । व्यधुश्चक्रुः ॥ ७ ॥

पाठा०-१ श्वासाकुल. २ रणान्तात्. ३ व्यधुश्च पुनरेत्य.