पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-३]
३४५
समरे तारकस्याष्टदिक्पालसंमुखागमनम्

  देवद्विषां परिवृढो विकटं विहस्य
   बाणावलीभिरमरान्विकटान्ववर्ष ।
  शैलानिव प्रवरवारिधरी गरिष्ठा-
   नद्भिः पराभिरथ गाढमनारताभिः ॥२॥

 देवेति । अथानन्तरं देवद्विषामसुराणां परिवृढो नायकस्तारको विकटं यथा स्यात्तथा । 'विकटः सुन्दरे प्रोक्तो विशालविकरालयोः' इति विश्वः । विहस्य हसित्वा, अट्टाट्टहासं कृत्वेत्यर्थः । अट्टाट्टहासोऽत्र रुडभिव्यञ्जकः, न तु सुरसैन्यविषयिणोऽवहेलनस्य । तत्र शांकरेरधिष्ठितत्वात् । विहस्येत्यत्र वेर्व्यर्थत्वं नाशङ्कनीयम् , विकटत्वेऽपि विशेषाधानात् । प्रवरः प्रकर्षेण श्रेष्ठः, वर्षाकालिक इति यावत् । स चासौ वारिधरो मेघो गरिष्ठातिशयगुरूञ्शैलान् , उद्दिश्येति शेषः । पराभिरुत्कृष्टाभिरनारताभिर्निरन्तरं पतन्तीभिरद्भिर्जलैरिव विकटान्करालानमरानिन्द्रादिदेवान् , उद्दिश्येति शेषः । बाणावलीभिः शरपङ्क्तिभिः कृत्वा ववर्ष वृष्टिमकार्षीत् ॥ २ ॥

  जम्भद्विपत्प्रभृतिदिक्पतिचापमुक्ता
   बाणाः शिता दनुजनायकबाणसङ्घान् ।
  अह्नाय तार्क्ष्यनिवहा इव नागपूगान्
   सद्यो विचिच्छिदुरलं कणशो रणान्ते ॥३॥

 जम्भद्विपदिति ॥ दनुजानां दैत्यानां नायकस्य स्वामिनस्तारकस्य संबन्धिनो बाणसङ्घाञ्शरसमूहान्कर्मभृतान् । जम्भद्विषत्प्रभृतयो महेन्द्रादयो ये दिक्पतयो दिगधिपास्तैः कर्तृभिः । चापेभ्यो मुक्ता विसृष्टाः शितास्तीक्ष्णा बाणाः शराः। नागपूगान्सर्पव्रजान् । 'नागः पन्नगमातङ्गकराचारिषु तोयदे' इति, 'पूगस्तु क्रमुके वृन्दे' इति च विश्वः । अह्नाय शीघ्रम् । 'द्राग्झटित्यञ्जसाह्नाय' इत्यमरः। तार्क्ष्यनिवहा गरुडसमूहा इव । 'तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे' इति

पाठा०-१ अभितः कुपितो ववर्ष. २ प्रवलवारिधरो गरिष्ठानम्भस्ततीभिः. प्रबलवारिधरोपरिष्टानम्भस्तटीभिः; प्रचुरवारिधरो गरिष्ठानम्भस्ततीभिः, ३ शितान्.

४ असुरराजकबाण.