पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
[ सर्गः १७
कुमारसंभवे

ररुणनयनो रक्तलोचनः । तथा भीमे भयानके भ्रमती विवर्तमाने भृकुटीमुखे भृकुट्योरग्रे यस्य तथोक्तः स सुररिपुस्तारको युयुत्सया योद्धुमिच्छया सपदि तत्क्षणमेव ककुभां दिशामीशानिन्द्रादीनष्टदिक्पालानभ्यागमत्संमुखमाजगाम । हरिणी वृत्तम् ; 'रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥५१॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये सुरासुर-
सैन्यसङ्ग्रामवर्णनं नाम षोडशः सर्गः ॥

सप्तदशः सर्गः

इदानीं तारकवधं चिकीर्षुस्तत्रभवान्कालिदासः सप्तदशतमं सर्गमारभते-

  दृष्ट्वाभ्युपेतमथ दैत्यपतिं पुरस्ता-
   त्सङ्ग्रामकेलिकुतुकेन घनप्रमोदम् ।
  योद्धुं मदेन मिमिलुः ककुभामधीशा
   बाणान्धकारितदिगम्बरगर्भमेत्य ॥१॥

 दृष्ट्वेति ॥ अथ तारकसंमुखगमनानन्तरम् । एते ककुभामधीशा इन्द्रादयोऽष्टौ दिक्पालाः । सङ्ग्रामः समरः, स एव केलिः क्रीडा, न तु प्रयत्नसाध्यं कर्मेति भावः । तत्र यत्कुतुकं कौतूहलम् , तदनुभवहेतुक उत्साह इति यावत् । तेन घनः सान्द्रः, बहल इति यावत् । यः प्रमोद आनन्दः स यस्य । तथा बाणैरन्धकारितः संजातान्धकारी कृतो दिशामम्बरस्य च गर्भः कुक्षिः, मध्य इति यावत् । येन । तथाऽभ्युपेतं संमुखमागतं दैत्यपतिं तारकं दृष्ट्वा विलोक्य योद्धुं संप्रहर्तुं मदेन गर्वेण, वीररसानुभावेनेति यावत् । मिमिलुः संयुयुजुः । सर्गेऽस्मिन्वसन्ततिलका वृत्तम् ; 'उक्ता वसन्ततिलका तभजा जगौ गः' इति लक्षणात् ॥१॥

पाठा०-१ तं च पतिम्. २ प्रसादम्. ३ भक्तिम्.