पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
[ सर्गः १६
कुमारसंभवे

विदारितोऽप्यश्वगस्तुरंगगामी कोपतः क्रोधवशानामूर्च्छन्न मुह्यति स्म, किंतु प्रपतन्नप्यश्वादधः स्रंसमानोऽपि रिपुं हन्तुमियेषैच्छत् ॥ ४४ ॥

  मिथःप्रासाहतौ वाजिच्युतौ भूमिगतौ रुषा ।
  शस्त्र्या युयुधतुः कौचित्केशाकेशि भुजाभुजि ॥ ४५ ॥

 मिथ इति ॥ मिथोऽन्योन्यं प्रासेनाहतौ । अत एव वाजिभ्यां सकाशाच्च्युतावधः पतितौ । अत एव भूमिं गतौ कौचिद्योधौ रुषा युतौ सन्तौ शस्त्र्या खड्गपुत्र्या युयुधतुर्ययुधाते । अथ च केशाकेशि केशेषु केशेषु गृहीत्वा प्रवृत्तं यद्युद्धम् , भुजाभ्यां भुजाभ्यां प्रहृत्य प्रवृत्तं यद्युद्धं तदभूत् । 'तत्र तेनेदमिति सरूपे' ( पा. २।२।२७) इति सूत्रेण समासः ॥ ४५ ॥

  रथिनो रथिभिर्बाणैर्हतप्राणा दृढासनाः।
  क्षतकार्मुकसंधानाः सप्राणा इव मेनिरे ॥४६॥

 रथिन इति ॥ रथिभी रथारोहैः कर्तृभिः । बाणैः कृत्वा हृतप्राणास्तथा दृढासनाः क्षतं नष्टं कार्मुकसंधानं धनुःसज्जीकरणं येषामेवंभूता रथिनो रथारोहाः सप्राणा इव जीवन्त इव मेनिरे मताः। कर्मणि लिट् । द्रष्टृभिरिति शेषः ॥ ४६॥

  न रथी रथिनं भूयः प्राहरच्छस्त्रमूर्ञ्छितम् ।
  प्रत्याश्वसन्तमन्विच्छन्नातिष्ठद्युधि लोभतः ॥४७॥

 नेति ॥ रथी रथारोहः शस्त्रेण मूर्च्छितमचेतितं रथिनं भूयो न प्राहरत् । किंतु पुनरपि युधि लोभतो लोभेन । तृतीयार्थे तसिः। प्रत्याश्वसन्तं पुनरुज्जीवन्तमन्विच्छन्नपेक्षमाणः सन्नतिष्ठत् ॥ ४७ ॥

  अन्योन्यं रथिनौ कौचिद्गतप्राणौ दिवङ्गतौ ।
  एकामप्सरसं प्राप्य युयुधाते वरायुधौ ॥४८॥

 अन्योन्यमिति ॥ वरायुधौ श्रेष्ठायुधौ कौचिद्रथिनावन्योन्यं परस्परेण कृत्वा

पाठा०-१ प्रासहतौ; प्रहारतः. २ शस्त्रैः. ३ कृत. ४ रेजिरे. ५ मत्वैनम्.

६ नागाद्युद्धमलोमतः. ७ हृतप्राणौ; हतप्राणो.