पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३६-४४]
३४१
तुरङ्गियुद्धवर्णनम्

 करेणेति ॥ कोपिना क्रुद्धेन करिणा दन्तिना कर्त्रा । करेण कृत्वा सुतरां गृहीतोऽपि वीरोऽसिना खड्गेन तस्यैव करिण एवासून्प्राणाञ्जहार हृतवान् । स्वयमक्षतोऽभूत् ॥४०॥

  तुरंगी तुरगारूढं प्रासेनाहत्य वक्षसि ।
  पततस्तस्य नाज्ञासीत् प्रासघातं स्वके हृदि ॥४१॥

 तुरंगीति ॥ तुरंग्यश्वारोहः कश्चिद्योद्धा तुरगारूढमश्ववारं प्रासेन कुन्तेन वक्षस्याहत्य ताडयित्वा पततस्तस्याश्ववारस्य कर्तृकं स्वक आत्मीये हृदि प्रासघातं कुन्तक्षतं नाज्ञासीन्न विजज्ञे, तदीयपतनजानन्दस्योद्वेलत्वादिति भावः ॥४१॥

  द्विषा प्रासहतप्राणो वाजिपृष्ठदृढासनः ।
  हस्तोद्धृतमहाप्रासो भुवि जीवन्निवाभ्रमत् ॥ ४२ ॥

 द्विषेति ॥ द्विषा शत्रुणा प्रासेन कृत्वा हृतप्राणो मारितः । तथा वाजिपृष्ठेऽश्वपृष्ठभागे दृढासनः । प्राग्दृढासनत्वान्मृतत्वे दृढत्वं युक्तम् । तथा हस्त उद्धृतो महाप्रासो येन तथाभूतः कश्चिज्जीवन्निव भुव्यभ्रमत्, अश्वभ्रमणवशाद्भ्रमञ्शवोऽशव इव लक्षित इति भावः ॥ ४२ ॥

  तुरंगसादिनं शस्त्रहृतप्राणं गतं भुवि ।
  अबद्धोऽपि महावाजी न साश्रुनयनोऽत्यजत् ॥ ४३ ॥

 तुरंगेति ॥ अबद्धोऽप्यनिरुद्धोऽपि महावाजी महानश्वः साश्रुणी सबाष्पे नयने यस्य तथाभूतः सन् । शस्त्रहृतप्राणमत एव भुवि गतं तुरंगसादिनमश्ववारं नात्यजन्न जहौ, किंतु तज्जीवनमपेक्षमाणस्तत्रैव तस्थावित्यर्थः ॥ ४३ ॥

  भल्लेन शितधारेण भिन्नोऽपि रिपुणाश्वगः ।
  नामूर्च्छत् कोपतो हन्तुमियेष प्रपतन्नपि ।। ४४ ॥

 भल्लेनेति ॥ रिपुणा कर्त्रा । शितधारेण तीक्ष्णधारेण भल्लेन भिन्नोऽपि

पाठा०-१ तुरगी. २ प्रासपातम्. ३ हस्तोद्धतमहाप्रासाः, ४ भटः, ५ अभवत्. ६ अन्त्राढ्यः; अन्त्राद्यः. ७ नात्रस्तनयनः, ८ खड्गेन. ९ च पतन् ; निपतन,