पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १२-१८]
३३५
सेनयोर्युद्धवर्णनम्

  कुन्ताश्चकाशिरे चण्डमुल्लसन्तो रणार्थिनाम् ।
  जिह्वाभोगा यमस्येव लेलिहाना रणाङ्गणे ॥ १६ ॥

कुन्ता इति ॥ रणाङ्गणे सङ्ग्रामचत्वरे चण्डं प्रचण्डं यथा तथोल्लसन्तो दीप्यमानाः कुन्ताः प्रासाः, भल्ला इति यावत् । 'कुन्तः प्रासे चण्डभावे क्षुद्रजन्तौ गवेधुके' इति विश्वः । लेलिहानाः पुनःपुनरतिशयेन वा लिहन्ति ते लेलिहानाः, आस्वादयन्त इत्यर्थः । लिहेर्यङन्ताच्छानच् । यमस्य जिह्वाभोगा इव रसनारूपयन्त्राणीव । 'आभोगो वरुणच्छन्ने पूर्णतायन्त्रयोरपि' इति विश्वः । चकाशिरे दिद्युतिरे ॥ १६॥

  प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम् ।
  चण्डांशुमण्डलश्रीणि रणव्योमनि बभ्रमुः ॥ १७ ।।

 प्रज्वलदिति ॥ प्रज्वलत्प्रदीप्यमानं कान्तिचक्रं द्युतिमण्डलं येषां तानि । तथा चण्डांशुमण्डलस्य सूर्यमण्डलस्य श्रीरिव श्रीः शोभा येषां तानि । वराः श्रेष्ठा ये चक्रिणो योधास्तेषां संबन्धीनि चक्राण्यायुधविशेषाः । 'चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः । ग्रामजाले कुलालस्य भाण्डे राष्ट्रास्त्रयोरपि' इति विश्वः । रणव्योमनि सङ्ग्रामरूपगगने बभ्रमुः । 'वा जभ्रमुत्रसाम्' ( पा. ६।४।१२४ ) इत्येत्वाभ्यासलोपयोर्विकल्पः । व्याख्यानान्तरम्-वरचक्रिणां वराणां वीराणां ये चक्रिणो रथास्तेषां चक्राण्यङ्गानि रणव्योमनि बभ्रमुः । विशेषणद्वयमुभयत्रापि समानम् ॥ १७ ॥

  केचिद्धीरैः प्रणादैश्च वीराणामभ्युपेयुषाम् ।
  निपेतुः क्षोभतो वाहादपरे मुमुहुर्मदात् ।। १८ ।।

 केचिदिति ॥ अभ्युपेयुषां संमुखमागतवतां वीराणां धीरैर्गम्भीरैः प्रणादैर्गर्जितैः केचिद्वीराः क्षोभतश्चित्तसंचलनाद्धेतोर्वाहादश्वान्निपेतुर्मुमूर्च्छुः । अपरे केचिन्मदाद्गर्वान्मुमुहुः, चेतनाविरहिता बभूवुरित्यर्थः ॥ १८ ॥

पाठा०-१ रणार्पिताः. २ जिह्वाभागा. ३ रणक्षये; रणाजिरे, ४ वक्राणि.

५ चण्डेषुमण्डल. ६ घोरैः. ७ तु. ८ वाहा न.