पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
[ सर्गः १६
कुमारसंभवे

  विभिन्न धन्विनां बाणैर्व्यथार्तमिव विह्वलम् ।
  ररास विरसं व्योम श्येनप्रतिरवच्छलात् ॥ १२ ॥

 विभिन्न मिति ॥ धन्विनां बाणैर्विभिन्नं विदीर्णम् । अत एव व्यथार्तं पीडया दुःखितम् । अत एव विह्वलम्, इतिकर्तव्यताविस्मरणाश्रयमित्यर्थः । व्योम नभः श्येनप्रतिरवस्य पक्षिविशेषप्रतिध्वनेश्छलान्मिषेण विरसं कठोरं यथा तथा ररासेव रुरोदेवेत्युत्प्रेक्षालंकारः ॥ १२ ॥

  चापैराकर्णमाकृष्टैर्विमुक्ता दूरमाशुगाः ।
  आधावन्रुधिरास्वादलुब्धा इव रणैषिणाम् ॥ १३ ॥

 चापैरिति ॥ आकर्णं कर्णपर्यन्तमाकृष्टै रणैषिणां योद्धॄणां संबन्धिभिश्चापैर्धनुर्भिर्विमुक्ता विसृष्टा आशुगाः शरा रुधिरास्वादे लुब्धा लम्पटा इव दूरमधावन्विद्रुताः । लम्पटोऽपि भोजनास्वादाय द्रुतं पलायते तद्वत् ॥ १३ ॥

  गृहीताः पाणिभिर्वीरैर्विकोशाः खड्गराजयः ।
  कान्तिजालच्छलादाजौ व्यहसन्संमदादिव ॥ १४ ॥

 गृहीता इति ॥ आजौ सङ्ग्रामे वीरैः कर्तृभिः । पाणिभिर्गृहीताः । तथा विकोशाः कोशरहिताः । 'कोशोऽस्त्री कुड्मले पाले दिव्यखड्गपिधानके' इति मेदिनी । खड्गराजयः करवालपतयः कान्तिजालच्छलाद्दयुतिसमूहकैतवेन संमदाद्वीराणामपि शत्रुविघातसाधने वयमेव यथोचितास्तथा नान्य इति प्रमोदाद्व्यहसन्निव जहसुरिवेत्युत्प्रेक्षा ॥ १४ ॥

  खड्गाः शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु ।
  रजोघने रणेऽनन्ते विद्युतां वैभवं दधुः ॥१५॥

 खड्गा इति ॥ शोणितसंदिग्धा रुधिरसंलिप्ताः । तथा वीरपाणिषु नृत्यन्तः खड्गाः। रजसा घने सान्द्रे । तथानन्तेऽपारे रणे विद्युतां वैभवं दधुः, तद्वच्छुशुभिर इत्यर्थः । अत्र पदार्थवृत्तिनिदर्शनालंकारः ॥ ५५ ॥

पाठा०-१ यथार्थमिव विह्वलम् ; वेश्याया इव विह्वलम् ; विशाख इव विह्वली. २ सेनापतिरवच्छलात् ; सेनापतिरिव च्छलात्. ३ कान्तिजालच्छलादाजौ

व्यहसन्समदा इव; कान्त्याननच्छलादाजेर्व्यहसन्सुमदा इव; कान्त्या जनच्छलादानैर्व्यहसन्प्रमदा इव. ४ रजोघनरणे. ५ विभ्रमम्.