पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५-११]
३३३
सेनयोर्युद्धवर्णनम्

 विसृजन्त इति ॥ रुष्टैः सुभटैः शोभनयोद्धुभिर्विसृष्टा विमुक्ताः शरा बाणाः । मुखैरग्रैर्ज्वाला उल्का विसृजन्तो मुञ्चन्तः । अत एव भीमा भयानका भुजंगमा इवेत्युत्प्रेक्षा । व्योम कर्म । व्यानशिरे व्यापुः । अत्र सुभटकर्तृकविसर्जनव्यापारपूर्वकव्योमव्याप्त्या प्राग्भाविताविशिष्टशत्रुविग्रहभेदनं ध्वन्यते । अन्यथा व्योमव्याप्तिमात्रस्यैव विवक्षितत्वेन व्यापृतेर्व्यर्थत्वमुद्भाव्येत । तेनात्र वस्तुना वस्तुध्वनिः ॥ ८॥

  बाढं वपूंषि निर्भिद्य धन्विनां निघ्नतां मिथः ।
  अशोणितमुखा भूमिं प्राविशन् दूरमाशुगाः ॥ ९ ॥

 बाढमिति ॥ मिथोऽन्योन्यं दूरमतिशयेन निघ्नतां प्रहरतां धन्विनां धनुर्धारिणां वपूंषि गात्राणि बाढं गाढम् , दृढमिति यावत् । निर्भिद्याप्यशोणितमुखाः शोणितसाहित्यराहित्यवन्ति मुखान्यग्राणि येषां त आशुगा बाणा भूमिं प्राविशन् प्रविष्टाः । अत्र विभेदका अप्यशोणितमुखा इति विरोधाभासालंकारेण बाणानामतिशीघ्रगामित्वरूपवस्तुध्वनिः । न च शीघ्रमेव व्यञ्जनीयमिति वाच्यम् ; आशुगा इत्यनेनैव तदभिहितत्वात् ॥ ९॥

  निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः ।
  पेतुः प्रवरयोधानां प्रीतानामाहवोत्सवे ॥ १० ॥

 निर्भिद्येति ॥ आहवोत्सवे सङ्ग्रामरूपोत्सवे प्रीतानां प्रवरयोधानामतिश्रेष्ठयोद्धॄणां संबन्धिन आशुगा बाणा दन्तिनो गजान्निर्भिद्य भेदयित्वा पूर्वं पातयामासुः । पश्चात्स्वयमपि पेतुः । अत्र वाक्यार्थरूपवस्तुना प्राणापहारकं तेषामतितैक्ष्ण्यं वस्तु ध्वन्यत इति वस्तुना वस्तुध्वनिः ॥ १० ॥

  ज्वलदग्निमुखैर्बाणैर्नीरन्ध्रैरितरेतरम् ।
  उच्चैर्वैमानिका व्योम्नि कीर्णे दूरमपासरन् ॥ ११ ॥

 ज्वलदिति ॥ ज्वलदग्निमुखैः प्रज्वलद्वह्निसहिताः । तथेतरेतरं परस्परं नीरन्ध्रैर्निर्गतावकाशैः, परस्परसंघट्टितैरिति तात्पर्यार्थः । बाणैः शरैः । उच्चैरतिशयितं यथा तथा कीर्णे व्याप्ते व्योम्नि वैमानिका विमानचारिणो देवा विष्ण्वादयो दूरमपासरन्दुद्रुवुः । आत्मशरीरसंबन्धशङ्काकुलत्वादिति भावः ॥ ११॥

पाठा०-१ गाढम्. २ निर्भेद्य. ३ कीर्णैः.