पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
[ सर्गः १६
कुमारसंभवे

  कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ ।
  परावृत्य गते क्षुब्धे विषसादाहवप्रियः ॥१९॥

 कश्चिदिति ॥ कश्चिद्वीरो जिघांसौ हन्तुमिच्छौ वीरेऽभ्यागते संमुखमागते सति । मुदमादधौ प्रससाद । अथ च क्षुब्ध एतदीयप्रहारक्षुभितेऽत एव परावृत्य गते तु विषसाद खिन्नोऽभूत् । यत आहवप्रियः सङ्ग्रामप्रियः । वीराणां प्रतिद्वन्द्विसंमुखागमनमेव प्रोतिजनकं भवतीति भावः ॥ १९ ॥

  बहुभिः सह युद्ध्वा वा परिभ्रम्य रणोल्बणाः ।
  उद्दिश्य तानुपेयुः केऽपि ये पूर्ववृता रणे ॥ २० ॥

 बहुभिरिति ॥ रण उल्बणा उद्भटाः केऽपि योधा रणे सङ्ग्रामे बहुभिः सह युद्ध्वा परिभ्रम्य वा तानुद्दिश्योपेयुर्युद्धार्थमभिजग्मुः । ये पूर्वं वृता अङ्गीकृताः । यैः सह पूर्वमयोधि तैरेव सह पुनरपि योद्धुं जग्मुरित्यर्थः ॥ २० ॥

  अभितोऽभ्यागतान्योद्धुं वीरान्रणमदोद्धतान् ।
   प्रत्यनन्दन्भुजादण्डरोमोद्गमभृतो भटाः ॥ २१ ॥

अमित इति ॥ भुजादण्डेषु यो रोम्णामुद्गमस्तं विभ्रति तथाभूता भटा योधाः कर्तारः रणस्य सङ्ग्रामस्य मदनोद्धतान् । अत एव योद्धुमभितोऽभ्यागतान्वीरान् , आलोक्येति शेषः । प्रत्यनन्दन्नहृष्यन् ॥ २१ ॥

  शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधः ।
  अध्याहवक्षेत्रमुप्तकीर्तिबीजाङ्कुरश्रियम् ॥ २२ ॥

 शस्त्रेति ॥ शस्त्रभिन्ना विदीर्णा य इभकुम्भा गजगण्डस्थलानि । 'कुम्भः स्थाकुम्भकर्णस्य सुते वेश्यापतौ घटे । राशिभेदे द्विपाङ्गे च' इति विश्वः । तेभ्योऽधः युतानि मौक्तिकानि कर्तॄणि । अध्याहवक्षेत्रमधिसङ्ग्रामकेदारम् । उप्तम् । पाठा०-१ क्षुब्धः; क्षुद्रे. २ सहयुध्वानः. ३ नामग्राहमुपेयुः केऽप्यग्रे

पूर्ववृता वयम्. ४ अप्यागतान्. ५ योधी. ६ मदोल्बणान् ; मदोद्धताः. ७ प्रत्यघ्नंस्तद्भुजादण्डे रोमोद्गमभृतो मदात्. ८ अधुः. ९ आहवक्षेत्रमभ्युप्तकीर्तिबीजोत्करश्रियम्,