पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ कुमारसंभव - महाशिवपुराणयोः कल्याणि ! कल्याणकरः सुराणां प्रीत्यान्वितः परमया परया भवान्या त्वत्तोऽपरस्याः कथमेष सर्गः । महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् । संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि | ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् । महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध । इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभि हेमवेत्रम् । प्रसादपात्र पुरतो भविष्णु- रथ स्मरारातिमुवाच वाचम् | पुरा सुरेन्द्रं सुरसंघसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः । प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन । रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तै स्त्रिद शैजिंगीपुणा । महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनात द्रुतम् स दुर्निवारं मनसोऽतिवेगिनं तच्छ्रुत्वा वचनं शंभोर्मुनेर्विष्ण्वादयः सुराः । सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् । " कुमारेण हतो होष तारको भविता प्रभो ! । तदर्थमेव संजातमिदं चरितमुत्तमम् ।” तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा । जयश्रियः संनयनं सुदुःसहम् । देवेभ्यस्तारकं हन्तुं कृपया परिभावितः ।