पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भ: कृशानुरेतसो रेत- स्याहते सरिता तया । निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु | अमोघं शांभवं बीजं सद्यो नद्योज्झितं महत् । तासामभ्युदरं दीप्तं स्थितं गर्भत्वमागमत् । स्वरूपमा स्थाय ततो हुताशस्त्र- सन्वलत्कम्पकृताञ्जलिः सन् | प्रवेपमानो नितरां स्मरारि- मिदं वचो व्यक्तमथाध्युवाच । स्वदीय सेवावसर प्रतीक्षै- रभ्यर्थितः शकमुखैः सुरैस्वाम् । उपागतोऽन्चेष्टुमहं बिहंग- रूपेण विद्वन्समयोचितेन । पिबन्स तम्याः स्तनयोः सुधौघं क्षणक्षणं साधु समेधमानः । प्रापाकृतिं कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः । श्रुत्वेति वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः । सान्द्रप्रमोदोदय सौख्य हेतु- भूतं वचोऽवोचत चन्द्रचूडः । जगधयीनन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति । अजीजनत्परं पुत्रं गणेशाख्य मुनीश्वर ! | असहञ्शिवरेतस्तद्धिमाद्रिः कम्पमुद्वहन् । गंगायां प्राक्षिपत्तूर्णमसह्यं दाहपीडितः । गङ्गयाऽपि च तद्वीर्यं दुःसहं परमात्मनः । निःक्षिप्तं हि शरस्तम्बे तरंगैः स्वैर्मुनीश्वर ! । पतितं तत्र तदेतो द्रुतं वालो बभूव ह । ततः स वह्निर्विकलः सांजलिर्नतको मुने । अस्तौच्छिवं मुखी नात्मा वचनं चेदमब्रवीत् । देवदेव महेशान ! मूढोऽहं तव सेवकः । क्षमस्व मेऽपराधं हि मम दाहं निवारय । ३१ ग्रहीतुं तं मनचक्रुः सर्वास्ताः कृत्तिका स्त्रियः | वादो बभूव तासां तद्ग्रहणेच्छापरो मुने ! | तद्वादशमनार्थं स षण्मुखानि चकार ह् । अमुं रुदंतमानीय स्तन्यपानेन ताः प्रभो ! । वर्धयामासुरीशस्य सुतं तव रविप्रभम् । पुत्रं निरीक्ष्य च तदा जगदेकबन्धुः