पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
[ सर्गः १५
कुमारसंभवे

चाभितः संमुखम् । 'अभितः शीघ्रसाकल्यसंमुखोभयतोऽन्तिके' इति विश्वः । भुजं बाहुं समुव्क्षिप्योत्थाप्य आत्मनोऽभिधानं नाम । 'आख्याह्ने अभिधानं च नामधेयं च नाम च' इत्यमरः । उच्चैःस्वरेण परेभ्यः शत्रुभ्यो न्यवेदयन् 'वयममुकनामानो वयममुकनामानः' इति निवेदितवन्तः ॥ ४८ ॥

पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा प[१]रं चुक्षुभिरे म[२]हासुराः ।
पु[३]रारिसूनोर्नयनैककोणके म[४]मुर्भटा[५]स्तस्य रणेऽवहेलया[६] ॥४९॥

 पुर इति ॥ महासुरा महान्तः सुरा इन्द्रादयः पुरोगतमग्रे प्राप्तं दैत्यस्य तारकस्य चमूरेव महानर्णवः समुद्रस्तं दृष्ट्वा परं केवलम् । 'परमव्ययमिच्छन्ति-' इति विश्वः । चुक्षुभिरे मंचेलुः, विव्यथुरिति यावत् । रणे संगरेऽवहेलया 'मदपेक्षया केयं वराकिका सेना' इत्यनादरेणोपलक्षितस्य तस्य पुरारिसूनोः शिवपुत्रस्य नयनैककोणके नेत्रैकदेश एव । 'कोणो वाद्यप्रभेदे स्यात्कोणोऽब्धौ लगुडेऽर्कजे । वीणादिवादनोपायेऽप्येकदेशे गृहस्य च ॥' इति विश्वः । अत्र गृहस्यैव कोण इत्यविवक्षितम् , किंत्वन्यसाधारणत्वेन प्रकृत इष्टसिद्ध्यर्थमुपलक्षितत्वे गमनीय इत्यलम् । भटा योद्धारो ममुः समाविविशुः ॥ ४९ ॥

द्विषब्दलत्रासवि[७]भीषिताश्चमूर्दिवौकसामन्धकशत्रुनन्दनः ।
अपश्यदुद्दिश्य म[८]हारणोत्सवं प्रसादपीयूषधरेण चक्षुपा ॥ ५० ॥

 द्विषदिति ॥ महारणोत्सवमुद्दिश्य स्थितोऽन्धकशत्रुनन्दनः कार्तिकेयो द्विषब्दलत्रासेन तारकसैन्यशासनेन विभीषिता भीता दिवौकसां देवानां चमूः सेना कर्म । प्रसादोऽनुग्रहः, स एव पीयूषममृतं तद्धरति तथाभूतेन चक्षुषाऽपश्यद्ददर्श । अवेन 'यूयं मा भैष्ट, प्रसन्ना भवत, निःशङ्कं युध्यध्वं च' इति व्यज्यते ॥ ५० ॥

[९]त्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा म[१०]खाशनाः ।
[११]हं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य संगतिः ॥५१॥


  1. अभितः
  2. अखिलाः सुराः; अखिलाः स तु
  3. स्मरारिसूनोः
  4. ममौ
  5. भटः; पुरः
  6. भावि रणे हि हेलया
  7. विसंकुला चमूम्
  8. महाहवोत्सवम् ; महाहवे बलम्
  9. उत्साहिनः
  10. सुधाशिनः
  11. अहंजुषः; अयत्नतः