उत्साहिता इति ॥ शक्तिधरस्यायुधविशेषधारिणः । 'शक्तिर्बले प्रमावादौ शक्तिः प्रहरणान्तरे' इति विश्वः । अत एव मृधे मङ्खये । 'मृधमास्कन्दनं सङ्ख्यम्' इत्यमरः । तस्य कुमारस्य दर्शनाद्धेतोरुत्साहिता उत्साहं प्राप्ता महेन्द्रप्रमुखा इन्द्रपूर्वा मखाशना यज्ञहविर्भाक्तारो देवा मृधे संगरे 'अहमेवारीञ्शत्रूञ्जेतुं समर्थोऽस्मि नान्यः' इति वदन्तः सन्तोऽरीरमन् रेमिरे। तथा हि-वरस्य श्रेष्टस्य संगतिः संबन्धः कस्य पुरुषस्य वीर्याय वीर्यं कर्तुं न भवति ? अपि तु सर्वस्थापीत्यर्थः । गतवीर्यस्य वीर्यकरणे महदाश्रय एव निदानं नान्यदिति काक्का ध्वन्यते ॥ ५१ ॥
परस्परमिति ॥ रणे युद्धे विजयैषिणो विजयं प्राप्तुमिच्छवः । अत एवं योद्धं युद्धुं कर्तुं स्वकरैरात्मीयपाणिभिरुद्धृतानि गृहीतान्यायुधानि खङ्गादीनि यैस्तथाभूता वज्रधरस्येन्द्रस्य द्विषोऽपि तारकस्य च । अपिरत्र समुच्चयार्थः । 'अपि संभावनाप्रश्नशाङ्कागार्हासमुच्चये' इति विश्वः । सैनिकाः सेनाचराः । 'चरनि' (पा. ४।४।८ ) इति ठक् । वैतालिकैर्बन्दिभिः श्रावितान्याकर्णितानि तार उच्चैर्विक्रमोऽभिधानानि नामानि च यस्मिन्कर्मणि यथा तथा परस्परमन्योन्यमीयुः प्रापुः, मिमिलुरिति यावत् ॥ ५२ ॥
सङ्ग्राममिति ॥ प्रलयाय नष्टचेष्टतायै, तां कर्तुमित्यर्थः । प्तङ्ग्रामं समरं संनिपततः समुदितवतः । अन्यत्र प्रलयाय लोकसंहाराय संनिपततो वर्धमानस्य ।