पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४३-४८]
३२७
तारकसेनाया इन्द्रसेनासंमुखगमनं

स्थितमिति शेषः । अपारमनवधिकं भयंकराकारम् , विभीषणाकृतिमत्पुरुषमित्यर्थः । सुरसैन्यसागरं देवसेनासमुद्रं प्रपेदे प्राप ॥ ४५ ॥

पुरः सुराणां पृ[१]तनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम् ।
बभार भू[२]म्नाथ स बाहुदण्डयोः प्रचण्डयोः संगरकेलिकौतुकी ४६

 पुर इति ॥ वीरः शूरः । 'वीरो रसविशेषे पुंस्युत्तरे सुभटे त्रिपु' इति मेदिनी । स तारकः प्रथीयसीमतिपृथुलां सुराणां देवानां संबन्धिनी पृतनां सेन्घं पुरोऽग्रे विलोक्य प्रचण्डयोबीहुदण्डयोर्भुजदण्डयोः । 'दण्डोऽस्त्री लगुडे पुमान्' इति मेदिनी । प्रमोदजमानन्दजनितं पुलकं रोमाञ्चं भूम्ना बाहुल्येन बभार धृतवान् । यतः संगरकेलौ सङ्ग्रामक्रीडायां कौतुक्युत्साहवान् , वीराणां सेनादर्शनमेव महान्मुदो हेतुरिति भावः ॥ ४६ ॥

ततो म[३]हेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते ४७

 तत इति ॥ ततोनऽन्तरं मनसः सकाशादप्यतिवेगिनोऽत्यन्तजववन्तः । तथा भूयसाऽतिशयेन रणान्ते सङ्ग्राममध्ये या लीला विलासः । विलासोऽत्र समराङ्गणाधिकरणकमात्मीयभुजदण्डगतपराक्रमचमत्कृतिदर्शनम् । तत्र रभसेन वेगेन । 'लीलां विदुः केलिविलासखेलाशृङ्गारभावप्रभवक्रियासु' इति विश्वः । चम्वां सेनायां चरन्तीति विग्रहे 'चरेष्टः' (पा. ३।२।१६) इति टप्रत्ययः । तथाभूता महेन्द्रस्येन्द्रस्य चराश्वाराः, दूता इति यावत् । 'चरो द्यूतप्रबन्धे स्याच्चारजङ्गमयोश्चले' इति विश्वः । समरे सङ्ग्रामे युयुत्सुभिर्योद्धुमिच्छुभिः, भवद्भिरित्यर्थः । किं विलम्ब्यते किं विलम्बः क्रियते ? अपि तु सत्वरमेव युध्यतामिति प्रतिपक्षान् , वक्तुमित्यपि शेषः । पुरोऽग्रे प्रचेलुः ॥ ४७ ॥

पु[४]रःस्थितं देवरिपोश्चमूचरा बल[५]द्विषः सैन्यसमुद्रम[६]भ्ययुः ।
भुजं समुत्क्षिप्य प[७]रेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन् ४८

 पुर इति ॥ देवरिपोस्तारकस्य चमूचराः सेनाचराः पुरःस्थितमनस्थितं बलद्विष इन्द्रस्य संबन्धिनं सैन्यसमुद्रं सेनासागरमभ्ययुः संमुखत्वेन जग्मुः। अथ


  1. पृतनाः प्रथीयसीः
  2. भूम्ना बहु
  3. ऽसुरेन्द्रानुचराः ऽसुरेन्द्रस्य चराः
  4. पुरःसराः
  5. सुरद्विषः
  6. अभ्यगुः
  7. सहेलमात्मनः