पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
[ सर्गः १५
कुमारसंभवे

युष्मान्प्रथमं प्राङ् निहन्मि । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति भविष्यकालेऽपि वर्तमानप्रयोगः । ततो भवद्धननानन्तरममुं कुमारमपि निहन्मि निहनिष्यामि ॥ ४२ ॥

इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं [१]क्रुधा ।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवुः ॥ ४३ ॥

 इतीति ॥ इति पूर्वोक्तमीरयति वदति महासुरे तारके क्रुधा हेतुनोग्रतरमत्यन्तभयानकं महाकृपाणं महान्तं खड्गम् । अलं पर्याप्तत्वेन । अनेन प्रथमं स्पर्शमात्र एवेति व्यज्यते । 'अलं भूषणपर्याप्तिवारणेषु निरर्थके' इति विश्वः । कलयति विभ्रति सत्ति । नभश्चरा देवा भयाद्धेतोः परस्परमन्योन्यमुत्पीडिता अतिसंकीर्णतया धृष्टत्वाद्यथिता जानव ऊरुपर्वाणि येषाम् । 'जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्' इत्यमरः । तथाभूताः सन्तो दूरतरमतिदूरम् । 'दूरान्तिकार्थेभ्यो द्वितीया च' (पा. २।३।३५) इति प्रातिपदिकार्थमात्रे द्वितीया । विदुद्रुवुः पलायांचक्रिरे । 'द्रु गतौ' इत्यस्मात्कर्तरि लिट् ॥ ४३ ॥

ततोऽवलेपाद्विकटं विह[२]स्य स व्य[३]धत्त कोशादसिमुत्तमं बहिः ।
रथं द्रुतं प्रापय वासवान्तिकं न[४]न्वित्यवोचन्नि[५]जसारथिं रथी ॥४४॥

 तत इति ॥ ततोऽनन्तरं स तारको विकटं करालं यथा तथा । वक्ष्यमाणस्यासेर्विशेषणं वा । 'विकटा वज्रवाराह्यां त्रिषु रुचिकरालयोः' इति मेदिनी । विहस्याट्टहासं कृत्वा । उत्तममसिं करवालं कोशाद्धहिर्व्यधत्त कृतवान् । अथ च रथी सः 'रथं वासवान्तिकमिन्द्रसमीपं द्रुतम् । ननु निश्चयेन प्रापय' इति निजं स्वीयं सारथिं सूतमवोचत् । 'ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे' इति विश्वः ॥४४॥

मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः।
ततः[६] प्रपेदे सुरसैन्यसागरं भयंकराकारमपारमग्रतः ॥ ४५ ॥

 मन इति ॥ ततोऽनन्तरं मनोतिवेगेनान्तःकरणादपि बहुलगतिजवेन सारथिना प्रणोदितेन प्रेरितेन रथेन प्रचलन्गच्छन् महासुरस्तारकोऽग्रतः पुरतः,


  1. ध्रुवम्
  2. निकृष्य
  3. अभिकोशमाधादसिमंशुभासुरम्
  4. बत
  5. प्रति
  6. द्रुतम्