स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः।
प्रक्षुभ्यदम्भोधिविभिन्नभूधराद्धलं द्विषोऽभूदवनिप्रकम्पात् ॥२३॥
स्खलदिति ॥ द्विषस्तारकस्य बलं सैन्यम् । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति विश्वः । प्रक्षुभ्यद्भिरुन्मध्यमानैरम्भोधिभिर्विभिन्ना विदीर्णा भूधराः पर्वता यत्र । प्रोत्पद्यमानविकटतरधरणिकम्पप्रोच्छलत्समुद्वेलजलधिघोर- तरप्रवाहस्फुटन्तो धराधरा बभूवुरिति भावः । एवंभूनादवनिप्रकम्पाद्भूकम्पाद्धेतोः स्खलन्महेभं मूर्च्छद्धहत्करीन्द्रं प्रपतत्तुरंगमं प्रकृष्टपतद्वाजिराजं परस्पराश्लिष्टोभय- वदन्योन्यासंसक्ताननो यत्र तथाभूतं बभूव । पञ्चदशतमोऽयमुत्पातः ॥ २३ ॥
ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः २४
ऊर्ध्वीकृतास्या इति ॥ सर्वे श्वानः समेत्य समुदेत्योर्ध्वीकृतास्या ऊर्ध्वदिशा- विहितवदनाः । तथा रविदत्तदृष्टयः सूर्यनिबद्धलोचनाः । तथा करुणेन करुण- रसपूरितेनात एव श्रवणान्तशातिना कर्णमध्यतनूकारिणा स्वरेण शब्देन कृत्वा रुदन्तः कोशन्तः सन्तः सुरविद्विषस्तारकस्य पुरोऽग्रे निर्ययुर्निरगच्छन् । षोडश- तमोऽयमुत्पातः ॥ २४॥
अपीति पश्यन्परिणामदारुणां महत्तमां गाढमरिष्टसंततिम् ।'
दुर्दैवदष्टो न खलु न्यवर्तत क्रुधा प्रयाणव्यवसायतोऽसुरः ॥२५॥
अपीति ॥ गाढं दृढं यथा तथा परिणाम उत्तरकाले दारुणां भयप्रदां महत्तमामतिशयमहतीमरिष्टसंततिमुत्पातपरम्परां पश्यन्नप्यसुरस्तारकः क्रुधाऽमर्षेण प्रयाणव्यवसायतः प्रस्थानोद्योगान्न न्यवर्तत न निवृत्तः खलु । यतो दुर्दैवेन दुरदृष्टेण दृष्टो हतः । 'विनाशकाले विपरीतबुद्धिः' इति न्यायादिति भावः ॥२५॥
अरिष्टमाशङ्कय विपाकदारुणं निवार्यमाणोऽपि बुधैर्महासुरः ।
पुरः प्रतस्थे महतां वृथा भवेदसद्ग्र्हान्धस्य हितोपदेशनम् ॥२६॥
पाठा०-१ चलन्. २ प्रणयत्तुरंगमम्. ३ संक्षुभ्यत्. ४ भूधरम्. ५ पुरः. ६ प्रकम्पम् ; प्रकम्पतः. ७ पतिना. ८ इति प्रपश्यन्. ९ महत्तराम्. १० दृष्टः, ११ खलः. १२ निवर्तते. १३ निवार्यमाणैः, १४ विबुधैः; विविधैः. १५ महासुरैः.
१६ हितोपदेशना; हितोपदेशिता.