पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
[ सर्गः १५
कुमारसंभवे

 ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम् ।
 रवेण रौद्रेण हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात् ॥२०॥

 ज्वलद्भिरिति ॥ निरम्बुदादनुभूतमेघान्नभसो व्योम्नः सकाशादभितो ज्वलद्भिः प्रस्फुरद्भिः प्रभाभरैः कान्तिसमूहैः कृत्वा । उचैरतिशयितं यथा तथोद्भासितानि प्रकाशितान्यशेषदिगन्तराम्बराणि समस्तदिशां प्रान्तगगनानि येन । तथा रौद्रेण भयानकेन रवेण घोषेण हृदन्तस्योरोमध्यस्य दारणं विदारकं वज्रं स्फूर्जथुः पपात । 'स्फूर्जथुर्वज्रनिर्घोषः' इत्यमरः । अत्राप्युत्पातद्वयम् । अम्बुद- सांनिध्याभावेऽपि वज्रदर्शनं तत्पातश्चेति । एवं नवमदशमावुत्पातावुक्तौ ॥ २० ॥

 ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः ।
 धूमं ज्वलन्त्यो व्यसृजन्मुखै रजो दधुर्दिशो रासभकण्ठधूसरम् २१

 ज्वलद्भिरिति ॥ नभस्तलम् , निरम्बुदं सदिति शेषः । ज्वलद्भिरङ्गारचयैः काष्ठशकलसमूहैः । तथा शोणितास्थिभिश्च सह गाढं दृढम् , बह्विति यावत् । ववर्ष, ज्वलदङ्गाररुधिरास्थिगर्भितं जलं ववर्पेत्यर्थः । अम्बुदसांनिध्याभावेऽपि वृष्टिः । एकादशतमोऽयमुत्पातः । साप्यङ्गारादिमिश्रितेति द्वादशतमः । अत एव ज्वलन्त्यो दिशो रासभकण्ठधूसरं खरगलसदृशधूसरवर्णम् । 'रासभो गर्दभे क्षुदजन्तुरोगप्रभेदयोः' इति मेदिनी । धूम धूमरूपं रजो रेणुं मुखैः प्रारम्भदेशैः व्यसृजंस्तत्यजुः । त्रयोदशतमोऽयमुत्पातः ॥ २५ ॥

 निर्घातघोषो गिरिशृङ्गशातनो घनोऽम्बराशाकुहरोदरंभरिः।
 बभूव भूम्ना श्रुतिभित्तिभेदनः प्रकोपिकालार्जितगर्जितर्जनः॥२२॥

 निर्घातेति ॥ प्रकोपिना प्रकृष्टरोषेण कालेन यमेनार्जितोत्पादिता गर्जिनी गर्जनां कुर्वती तर्जनाऽपकारगीर्यत्र । अत एवाम्बरस्याशानां च कुहरेणान्तरेणोदरं- भरिरत एव गिरीणां शृङ्गस्य शातनो भेदकः । तथा घनः सान्द्रो निर्घातश्चासौ घोषश्च स भूम्ना बाहुल्येन श्रुतिभित्तिभेदनः कर्णकुड्यताडनो बभूव । चतुर्दश- तमोऽयमुत्पातः ॥ २२ ॥

पाठा०-१ चलद्भिः. २ दिगन्तदारणम्. ३ अङ्गारभरैः. ४ धूम्रम्. ५ मुखे. ६ गिरिशृङ्गघातनः; गिरिशृङ्गशाननैः. ७ धराम्बराशाकुहरोदरंभरिः; धनैराशाकुह-

रोदरंभरिः. ८ भूमा. ९ गर्जितस्वनः; गर्जतर्जनः.