पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
[ सर्गः १५
कुमारसंभवे

 अरिष्टेति ॥ महासुरस्तारकोऽरिष्टं विपाक उत्तरकाले दारुणं भयदमाशङ्क्य तर्कयित्वा निवार्यमाणो निषिध्यमानोऽपि पुर एव प्रतस्थे न तु पश्चानिववृते। तथा हि-महतां महता कृतमसद्ग्रेहेणान्धस्याविवेकिनः संबन्धिनो हितस्योप- देशनं वृथा व्यर्थ भवेत् । दुराग्रहशीलस्य सम्यगुपदेशोऽपि तदमततया व्यर्थः स्यादिति भावः ॥ २६ ॥ इदानीं पञ्चभिः पञ्च महोत्पातानाह-

 क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरधर्मवारणम् ।
 रराज मृत्योरिव पारणाविधौ प्रकल्पितं हाटकभाजनं महत् ॥२७॥

 क्षिताविति ॥ प्रतिकूलवायुना प्रतीपपवनेन क्षितौ पृथिव्यां निरस्तं निःक्षि- प्तम् । 'असु क्षेपणे' इत्यतः कर्मणि निष्ठा । तदीयं तारकसंबन्धि चामीकरस्य हेम्नः। 'चामीकरं जातरूपं महारजतकाञ्चने' इत्यमरः । धर्मवारणं छत्रं मृत्यो- र्यमस्य संबन्धिनि पारणाविधौ। भोजनक्रियानिमित्तमित्यर्थः । 'निमित्तात्कर्मयोगे' (वा० १४९० ) इति सप्तमी । योगोऽत्र संयोगः । प्रकल्पितं निर्मितं महद्विशालं हाटकभाजनं सुवर्णपात्रमिवेत्युत्प्रेक्षा । रराज शुशुभे ॥ २७ ॥

 विजानता भावि शिरोनिकृन्तनं प्रज्ञेन शोकादिव तस्य मौलिना।
 मुहुर्गलद्भिस्तरलैरलंतरामरोदि मुक्ताफलबाष्पविन्दुभिः ॥ २८ ॥

 विजानतेति ॥ प्रज्ञेन बुधेन । 'प्रज्ञस्तु पण्डिते वाच्यलिङ्गो ब्रद्धौ तु योषिति' इति मेदिनी। अत एव भावि भविष्यच्छिरोनिकृन्तनं मस्तकच्छेदनं विजानता बुध्यमानेन तस्य तारकस्य मौलिना किरीटेन । 'मौलिः किरीटे शृङ्गारे धम्मिल्ले द्रुमचूडयोः' इति विश्वः । शोकाद्धेतोर्मुहुर्गलद्भिर्निःसरद्भिस्तरलैश्चञ्चलैः । 'तरलं चञ्चले लिङ्गे हारमध्यमणावपि' इति विश्वः । मुक्ताफलान्येव बाप्पबिन्दवो- ऽश्रुबिन्दवः । 'बिन्दुस्तु दन्तनाले स्यात्तथा वेदितृविप्लुषोः' इति विश्वः । तैः कृत्वा- ऽलंतरामतिशयपर्याप्तं यथा तथा । 'अलं भूषणपर्याप्तिवारगेषु निरर्थके' इति विश्वः । अरोदीव रुदितमिवेत्युत्प्रेक्षा । मुकुटखचितमणिनिचयसाहसिकभूपतनरूप उत्पातोयमिति भावः ॥ २८ ॥


पाठा०-१ राजतपानभाजनम्. २ विकर्तनम्. ३ स्रस्तेन; प्रश्नेन.