पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १५-१९]
३१७
तारकस्योत्पातपरम्परावर्णनम्

 मिलदिति ॥ दिनानां प्रभुः सूर्यो द्विषतः शत्रुभूतस्य । "द्विषट्वेषणदुर्हृदः' इत्यमरः । महासुरस्य तारकस्यान्तं विनाशम् , मरणमिति यावत् । 'अन्तः स्वरूपे नाशे ना स्त्री शेषे चान्तिके त्रिषु' इति मेदिनी। आसूचयितुं ज्ञापयितुं मिलन्तः संयुजन्तः । तथा महाभीमा अतिभयंकरा ये भुजंगाः सर्पास्तैर्भीषणं भयदं परिवेषं परिधिं कुण्डलाकारम् । 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः । अतिमत्स रादिवादधौ धृतवान् । विनाशरूपफलसूचकपरिवेषाधाने मत्सरस्य हेतुत्वाभावेऽपि हेतुत्वकल्पनाद्धेतूत्प्रेक्षा । अत एव भयंकरो विभीषकः । 'मेघर्ति-'(पा. ३।२।४३) इति खश् । पञ्चमोऽयमुत्पातः ॥ १७ ॥

 त्विषामधीशस्य पुरोऽधिमण्डलं शिवाः समेताः परुष ववासिरे ।
 सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव ॥१८॥

 त्विषामिति ॥ त्विषां तेजसामधीशस्य रवेरधिमण्डलम् । मण्डल इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । समेताः समुदिताः शिवाः क्रोष्ट्रयः । 'शिवा झाटामलौ- षधौ । अभयामलकीगौरीकोष्ट्रीसशकफलसु च' इति विश्वः । सुरारिराजस्य तार- कस्य संबन्धिनि रणान्ते सङ्ग्रामसमीपे यच्छोणितं रक्तं द्रुतं शीघ्रं प्रसह्य बलात्पातुं पानं कर्तुमुत्सुका इव परुषं कठोरं यथा तथा ववासिरे चुक्रुशुः । अत्रोत्पात- द्वयम् । मार्तण्डमण्डलाधिकरणकं शिवासमुदितत्वं तत्कर्तृककठोररुदितं चेति । षष्ठसप्तमावेतावुत्पातौ ॥ १८ ॥

 दिवापि तारास्तरलास्तरस्विनीः परापतन्तीः परितोऽथ वाहिनीः।
 विलोक्य लोको मनसा व्यचिन्तयत्प्राणव्ययान्तं व्यसनं सुरद्विषः।।

 दिवापीति ॥ अथ दिवापि दिनेऽपि तरलाश्चञ्चलाः तरस्विनीर्वेगवतीः। 'रंह- स्तरसी तु स्यः स्यदः' इत्यमरः । तारा नक्षत्राणि, वाहिनीः परितः 'अभितःपरितः- समया-' (पा. ५।४।६० ) इत्यादिना द्वितीया । परापतन्तीर्विलोक्य लोको मनसा सुरद्विषः संबन्धि प्राणव्ययान्तं प्राणनाशावधि व्यसनं व्यचिन्तयत् । प्राणनाशा- वधि राज्ञो दुःखं भविष्यतीति चिन्तयामासेत्यर्थः । अष्टमोऽयमुत्पातः ॥ १९ ॥

पाठा०-१ अभिमण्डलम्. २ सुराधिराजस्य. ३ तदानिशम्. ४ अभिवाहि-

नीम्. ५ लोकाः, ६ व्यचिन्तयन् ; ७ प्राणात्ययान्तं व्यसनम्,