पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
[ सर्गः १५
कुमारसंभवे

प्रयाणानौचित्यद्योतकमुत्पातद्वयं वर्णितम् । तथा हि – आकस्मिकोपरि वृत्तिः आतपानिवृत्तिश्च । तस्मात् सर्वथैवास्य मरणं भविष्यतीति सूच्यते ॥ १४ ॥

 मुहुर्विभग्नातपवारणध्वजश्वलद्धराधूलिकलाकुलेक्षणः ।
 धूताश्वमातङ्गमहारथाकरानवेक्षणोऽभूत्प्रसभं प्रभञ्जनः ॥ १५ ॥

 मुहुरिति ॥ विभग्ना त्रोटिता आतपवारणसहिता ध्वजा येन । चलन्त्यो विसरन्त्यो या धराधूलयः पृथिवीरजांसि तासां कुलेन साधनीभूतेनाकुलानि व्याकुलीकृतानीक्षणानि लोकनेत्राणि येन । तथा धूतस्य कम्पितस्य । नभसि भ्रमितस्येति यावत् । अश्वानां मातङ्गानां महारथानां चाकरस्य निकरस्य । 'आकरो निकरे रत्नस्थाने श्रेष्ठे च कथ्यते' इति मेदिनी । अनवेक्षणमदर्शनं येन । आच्छा- दितसकलसेनाङ्गः प्रभञ्जनो वायुः । 'पवमानप्रभञ्जनाः' इत्यमरः । अभूदुत्पन्नः । "मुहुः,' 'प्रसभम्' इत्यस्य विशेषणत्रयेऽपि संबन्धः । अयं तृतीय उत्पातः ॥ १५ ॥

 सद्योविभिन्नाञ्जनपुञ्जतेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः ।
 पुरः पथोऽतीत्य महाभुजंगमा भयंकराकारभृतो भृशं ययुः ॥१६॥

 सद्य इति ॥ सद्योविभिन्नं तत्क्षणपतितं यदञ्जनं कज्जलम् । 'अञ्जनं कज्जले चाक्तौ सौवीरे च रसान्तरे' इति मेदिनी । तस्य पुञ्ज इव निकर इव तेजो ध्यम येषाम् । नूतनपातितकज्जलसमूहश्यामभास इत्यर्थः । उच्चकैर्महान्तः, विस्तीर्णा इति यावत् । तथा भृशं भयंकराकारभृतः, अतिभीषणस्वरूपधारिण इत्यर्थः । महाभुजंगमा महान्तः सर्पाः पुरोऽग्रे विषाग्निं गरलरूपमग्निम् । 'क्ष्वेडस्तु गरलं विषम्' इत्यमरः । विकिरन्तो विक्षिपन्तः सन्तः पथः सैन्यगन्तव्यमार्गानतीत्य. पूर्वविहितात्मसंबन्धेन वियोज्य ययुः । चतुर्थोऽयमुत्पातः ॥ १६ ॥

 मिलन्महाभीमभुजंगभीषणं प्रभुर्दिनानां परिवेषमादधौ ।
 महासुरस्य द्विषतोऽतिमत्सरादिवान्तमासूचयितुं भयंकरः ॥१७॥

पाठा०-१ विभिन्न. २ धुताश्वमातङ्गमहारथव्रजोऽनवेक्षणोऽभूत् ; जनाश्व- मातङ्गमहारथव्रजानवेक्षमाणः. ३ संनिभाः. ४ परोत्पात. ५ नु मत्सरात् ; न

मत्सरात्. ६ आत्तमास्यं प्रयतुर्भयंकरम् ; आत्तमास्यप्रयतुर्भयंकराः.