चमूप्रभुमिति ॥ महासुरास्तारकनगरनिवासिनो दैत्या विजयश्रिया विजयलक्ष्म्या श्रितं सेवितम् । एतेनास्य कादाचित्कोऽपि पराभवो न भवतीति ध्वनितम् । अत एव चमूप्रभुं सेनाधिपं मन्मथमर्दनस्य शिवस्यात्मजम् । अनेन यदीयः पिता सकलभुवनजेतुर्मकरध्वजस्यापि प्लोषिता, अतोऽस्य किं वक्तव्यम् ? 'कार्य निदानाद्धि गुणानधीते', 'प्रवर्तितो दीप इव प्रदीपात्' इत्यादिन्यायेन तारकेणाप्ययं दुर्जेय इति ध्वनितम् । तं कार्तिकेयं विजित्वरीभिर्जयशीलाभिः । जयतेः 'इण्नशजिसतिभ्यः क्करप्'(पा.३।२।१६३) इति क्करपि परे 'हस्वस्य पिति-'(पा. ६।१।७१) इति तुकि कृते 'टिड्ढाणञ्-'(पा.४।१।१५) इत्यनेन ङीप् । सुराणां देवानां पृतनाभिः सेनाभिः सहागतमायातं श्रुत्वा चिरं बहुकालपर्यन्तं चित्ते मनसि चुक्षुभिरे संचेलुः, बिभ्युरित्यर्थः । 'क्षुभ संचलने', कर्तरि लिट् । अत्र वाच्यापेक्षया व्यङ्गयार्थस्याधिकचमत्कृतिजनकत्वाद्ध्वनिः ॥ २ ॥
समेत्येति ॥ दैत्याधिपतेस्तारकस्य पुरे नगरे स्थितास्ते महासुराः समेत्य समुदित्य, संघीभूयेति यावत् । तथा किरीटेषु मुकुटेषु बद्धोऽञ्जलिर्यैस्तथा सन्तः प्रणम्य युयुत्सुना योद्धुमिच्छुना मन्मथशत्रोः शिवस्य सूनुना पुत्रेण कुमारेण सहागतं जम्भजितमिन्द्रं न्यवेदयन्, स शंभुपुत्रो महेन्द्र आगत इति निवेदितवन्त इत्यर्थः ॥३॥
दासीकृतेति ॥ दासीकृतं भृत्यीकृतम् । 'दासो भृत्ये च शूद्रे च' इति मेदिनी । अशेषजगत्त्रयं समस्तलोकत्रितयं येन तथाभूतं मां शचीपतिरिन्द्रः कतिशः