पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
[ सर्गः १४
कुमारसंभवे

  [१]लमदसुरलोकानल्पक[२]ल्पान्तकाले
   निरवधय इवाम्भोराशयो घोर[३]घोषाः ।
  गुरुतरपरिमज्जद्भूभृतो देवसेना
   [४]वृधुरपि सु[५]पूर्णा व्योमभूम्यन्तराले ॥५१॥

 बलवदिति ॥ गुरुतरा अत एव परिमज्जन्तो भूभृतो राजानः पर्वताश्च यासु येषु च व्योमभूम्योर्द्यावापृथिव्योरन्तराले मध्ये सुतरां पूर्णा अपि । इत्युभयत्रापि समानम् । घोरघोषा भयानकरवा देवसेना ववृधुः । तत्रोत्प्रेक्षते-बलवतामसुरलोकानामनल्पो महान् यः कल्पान्तकालः प्रलयकालस्तत्र निरवधयोऽपारा अम्भोराशय इव समुद्रा इव । अत्रोपमैवास्त्विति चेत्-न; तत्राभिन्नलिङ्गमुभयोरिति नियमात् । मालिनी छन्दः । लक्षणं पूर्वमुक्तम् ॥ ५१ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये देव-
सेनाप्रयाणं नाम चतुर्दशः सर्गः ॥

पञ्चदशः सर्गः।

 सेनापति नन्दनमन्धकद्विषो यु[६]धे पुरस्कृत्य बलस्य शात्रवः ।
 सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती हृ[७]दयप्रकम्पिनी ॥१॥

 सेनापतिमिति ॥ बलस्य बलनामकराक्षसस्य शात्रवः शत्रुरेव शात्रवः । प्रज्ञादित्वात्स्वार्थेऽण् । इन्द्रः । सेनापतिं पृतनाधिपम् । अन्धकद्विषो हरस्य नन्दनं पुत्रं कार्तिकेयं पुरस्कृत्याग्रे कृत्वा सैन्यैः सह युधे युद्धाय, युद्धं कर्तुमिति यावत् । 'क्रियार्थ-'(पा.२।३।१४ ) इत्यादिना चतुर्थी । उपैत्यायाति । इत्येवंभूता हृदयप्रकम्पिनी हृदयं वेपयन्ती किंवदन्ती जनश्रुतिः । 'किंवदन्ती जनश्रुतिः' इत्यमरः । सुरद्विषां दैत्यानां तारकनगरनिवासिनां पुरोऽग्रेऽभूत् । सर्गेऽस्मिन्निन्द्रवंशोपजाती वृत्ते ॥ १॥


  1. वरतरसुर.
  2. संहारकाले.
  3. घोरघोरः.
  4. ववृषुः.
  5. भूम्यन्तरालाः; समाना व्योनि भूम्यन्तराले.
  6. युद्धे.
  7. हृदयस्य कम्पिनी.