पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ कुमारसंभव - महाशिवपुराणयोः अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् । आज्ञापयामास मुदा गन्तुं वेन च तत्र वै । श्रीशिव उवाच - अपि यूयं सह मया संगच्छध्वं गिरेः पुरम् | कियद्गणानिहास्थाप्य महोत्सवपुरःसरम् । तावत्स्त्रियः समाजग्मुर्हित्वा कामाननेकशः | वहयास्ताः पुरवासिन्यः शिवदर्शनलालसाः । मज्जनं कुर्वती काचित्तवर्णसहिता ययौ । द्रष्टुं कुतूहलाढ्या च शंकरं गिरिजावरम् । रशनां बनती काचित्तयैव सहिता ययौ । वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः । काचिद्धस्ते शलाकां च धृत्वांजनकरा प्रिया अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम् । दृष्ट्वा तु शांकरं रूपं मोहं प्राप्तास्तदाऽभवन् । अथ विष्ण्वादयो देवा मुनयः सकुतूहलम् | हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः । श्रुत्याचारं भवाचारं विधाय च यथार्थतः । शिवामलंकृतां चक्रुः शिवदत्तविभूषणैः । एतस्मिन्नन्तरे तत्र गर्गाचार्यप्रणोदितः । हिमवान्मेनया सार्धं कन्यां दातुं प्रचक्रमे । हैमं कलशमादाय मेना चार्धांगमाश्रिता । हिमाद्रेच महाभागा वस्त्राभरणभूषिता । पाद्यादिभिस्ततः शैलः प्रहृष्टः सपुरोहितः । तं वरं वरयामास वस्त्रचन्दनभूषणैः । ततो हिमाद्रिणा प्रोक्तां द्विजास्तिथ्यादि कीर्तने । तिथौ च जामित्रगुणान्वितायाम् । तच्छ्रुत्वा वचनं तेषां सुहृदां स हिमालयः । समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् । अौषधीनामधिपस्य स्वकन्यादानमकरोच्छिवाय विधिनोदितः ! इमां कन्यां तुभ्यमहं ददामि परमेश्वर ! | ते हिमालयमामध्य पुनः प्राप्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः | तस्मिन्मुहूर्ते पुरसुन्दरीणा- मीशानसंदर्शनलालसानाम् । प्रासादमालासु बभूवुरित्यं व्यक्तान्य कार्याणि विचेष्टितानि |