पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् । कर्तव्यं वो न पश्यामि स्याञ्चेकि नोपपद्यते । मन्यते मत्पावनायैव प्रस्थानं भवतामिह । कुमारसंभव - महाशिवपुराणयोः देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् । स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना | तस्माद्भवन्तो गच्छंतु हिमाचलगृहं ध्रुवम् । तत्र गत्वा गिरिवरं तत्पत्नीं च प्रबोधय । कथनीयं प्रयत्नेन वचनं वेदसम्मितम् । इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः । आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम् | दृष्ट्वा तां च पुरं दिव्यमृषय स्तेऽतिविस्मिताः । वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् । ऋषय ऊचु:- पुण्यवन्तो वयं धन्या दृष्ट्वेतद्धिमत्पुरम् । यम्मादेवंविधे कार्ये शिवेनैव नियोजिताः । अलकायाञ्च स्वर्गाच्च भोगवल्यास्तथा पुनः । विशेषेणामरावत्या दृश्यते पुरमुत्तमम् । उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथा | नराव देवताः सर्वे स्त्रियश्चाप्सरसं तथा । कर्मभूमौ याज्ञिकाश्च पौराणा: स्वर्गकाम्यया | कुति ते वृथा सर्वे विहाय हिमवत्पुरम् । यावन्न दृष्टमेतच तावत्सर्गपरा नराः । दृष्टमेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् । ब्रह्मोवाच - इत्येवमृषिवर्यास्ते वर्णयन्तः पुरं च तत् । गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् । तान्दृष्ट्वा सूर्यसङ्काशान् हिमवान्विस्मितोऽब्रवीत दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः । सप्तैते सूर्यसङ्काशाः समायांति मदन्तिके | पूजा कार्या प्रयत्नेन मुनीनां च मयाधुना । वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः |