पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीज्योतिर्मयान्सत सस्मार स्मरशासनः । तदर्शनादभूच्छंभो- र्भूयान्दारार्थमादरः । क्रियाणां खलु धर्म्याणां सपत्यो मूलकारणम् । सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः । अरिविप्रकृतदेवैः प्रसूतिं प्रति याचितः । तामस्मदर्थे युष्माभि- र्याचितव्यो हिमालयः । विक्रियायें न कल्पते संबन्धाः सदनुष्ठिताः । ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् | भगवानपि संप्राप्तः प्रथमोद्दिष्टमास्पदम् । अलकामतिवाद्यैव वसतिं वसुसंपदाम् । साम्यानदशक: संदर्भ: २५ एहि प्रिये ! मत्सकाशं पत्नी त्वं मे वरस्तव | इत्युक्ते देवदेवेन पार्वती मुदमाप सा | तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम् । सर्व: श्रमो विनष्टोऽभूत्सत्यस्तु मुनिसत्तम ! | फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात् । पितुर्गेहे मया सम्यग्गम्यते त्वदनुज्ञया । प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः । गन्तव्यं भवता नाथ ! हिमवत्पार्श्वतः प्रभो ! । याचख मां ततो भिक्षुर्भूत्वा लीलाविशारदः । एतस्मिन्नंतरे तात ! शम्भुना सप्त एव ते । संस्मृता ऋषयः सद्यो विरहव्याकुलात्मना । ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा । तदाऽऽजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे । अरुंधती तथाऽऽयाता साक्षात्सिद्धिरिवापरा | साधनीया विशेषेण लोकानां सिद्धिहेतवे । देवानां दुःखमुत्पन्नं तारकात्सुदुरात्मनः । ब्रह्मणा च बरो दत्तः किं करोमि दुरासदः । मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः | ताः सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् | तथा च कर्तुकामाहं विवाहं शिवया सह । तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः । पार्वतीवचनाद्भिक्षुरूपो यातो गिरेगृहम् । अहं पावितवान्काले यतो लीलाविशारदः । मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः । दातुकामावभूतां च स्वसुतां वेदरीतितः ।