पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४३-४९]
२५१
शिवकुमारयोः कौतुकवर्णनम्

 कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिं प्रवेश्याननकोटरेषु ।
 दन्तानुपातुं रभसी बभूव मुक्ताफलभ्रान्तिकरः कुमारः॥४६॥

 कपर्दीति ॥ कुमारः कार्तिकेयः कपर्दिकण्ठान्ते शिवकण्ठमध्ये स्थितस्य कपालदाम्नो नृकरोटीस्रज आननकोटरेषु वदनकूपेषु । 'कोटरो नागरे कूपे पुष्करिण्युच्चधाटके' इति मेदिनी । अङ्गुलिं प्रवेश्य दन्तानुपात्तुं ग्रहीतुं रभसी रभसो वेगोऽस्यास्तीति तथोक्ताः । 'रभसो वेगहर्षयोः' इति मेदिनी । बभूव, एतान्वेगेन गृह्णामीत्यैच्छदित्यर्थः। यतो मुक्ताफलभ्रान्तिकरो मौक्तिकभ्रमकारी॥४६॥

 शंभोः शिरोऽन्तःसरितस्तरंगान्विगाह्य गाढं शिशिरान्रसेन ।
 २स जातजाड्यं निजपाणिपद्ममतापयद्भालविलोचनाग्नौ ॥४७॥

 शंभोरिति ॥ स कुमारः । शिशिराञ्छीतलाञ्छंभोः संबन्धिनः शिरसोऽन्तमध्ये स्थितायाः सरितो गङ्गायास्तरंगान् रसेन स्वादेन । स्वादोऽत्र त्वगिन्द्रियग्राह्यत्वेन विवक्षितः । 'रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये तक्रादौ द्रव्यरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान्' इति मेदिनी । गाढं दृढम् । 'गाढबाढदृढानि च' इत्यमरः । विगाह्यावगाह्य । अत एव जातजाड्यं जातशीतकृतजडत्वं निजपाणिपद्मं स्वीयकरकमलं भाले यद्विलोचनं तत्र योऽग्निस्तत्रातापयत् । अन्योऽपि शीतजडं हस्तमग्नौ तापयति तद्वदिति भावः ॥ ४७ ॥

 किंचित्कलं ३भङ्गुरकंधरस्य नमज्जटाजूटधरस्य शंभोः ।
 प्रलम्बमानं किल कौतुकेन चिरं चुचुम्बे मुकुटेन्दुखण्डम् ।। ४८॥

 किंचिदिति ॥ किंचिद्भङ्गुरा पतनशीला । 'भञ्जभासमिदो घुरच् ( पा. ३।२१।१६१ ) इति घुरच्, 'चजो:-' (पा. ७।३।५२ ) इति कुत्वम् । कंधरा ग्रीवा यस्य। बालत्वात् स कुमारो नमज्जटाजूटस्य धरस्तस्य शंभोर्हरस्य प्रलम्बमानमाश्रयमाणं कलं मधुरं मुकुटेन्दुखण्डं मुकुटचन्द्रशकलम् । 'भित्तं शकलखण्डे वा' इत्यमरः । कौतुकेनानन्देन चिरं बहुकालं चुचुम्बे, पस्पर्शेत्यर्थः ॥ ४८ ॥

 इत्थं शिशोः शैशवकेलिवृत्तैर्मनोभिरामैर्गिरिजागिरीशौ।
 ५मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ॥४९॥

पाठा०-१करान् ; धरः. २ संजातजाड्यः. ३ भङ्गुरकण्ठरम्य. ४ कैतव. ५ मुदा.