पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
[ सर्गः ११
कुमारसंभवे

 क्वचिदिति ॥ स बालः कुमारः क्वचित्प्रदेशे स्खलद्भिः क्वचित्प्रदेशेऽस्खलद्भिः कचित्प्रदेशे प्रकम्पैः प्रकृष्टकम्पैः क्वचित्प्रदेशेऽप्रकम्पैर्लीलया ये चलनप्रयोगास्तैर्निमित्तभूतैस्तयोः पित्रोर्जननीजनकयोः माता च पिता च पितरौ, तयोः पित्रोः। 'पिता मात्रा' (पा. १।२।७० ) इत्येकशेषः । मुदं प्रीतिं वर्धयति स्म । 'कन्दलयांचकार' इत्यपि पाठः । अर्थः स एव ॥ ४२ ॥

 अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गणक्रीडनधूलिधूम्रः ।
 मुहुर्वदन्किंचिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ॥ ४३ ॥

 अहेत्विति ॥ गृहाङ्गणे यत्क्रीडनं तेन निमित्तेन धूलिभी रजोभिर्धूम्रो धूसरः सन्नङ्कगत उत्सङ्गं प्राप्तः कुमारः । अहेतुकारणो यो हासो हसितं तेन च्छुरितो मिश्रित आननेन्दुर्मुखचन्द्रो यस्य । अलक्षितार्थमव्यक्तार्थं मुहुः किंचिद्वदंस्तयोर्मुदं प्रीतिं ततान चकार ।। ४३ ॥

 गृह्णन्विषाणे हरवाहनस्य स्पृशन्नुमाकेसरिणं सलीलम् ।
 स भृङ्गिणः सूक्ष्मतरं शिखाग्रं कर्षन्बभूव प्रमदाय पित्रोः ॥४४॥

 गृह्णन्निति ॥ स कुमारः हरवाहनस्य वृषस्य विषाणे शृङ्गे गृह्णन् , कराभ्यामिति शेषः । तथोमाकेसरिणं पार्वतीसिंहं सलीलमप्रयासं यथा तथा स्पृशन् । तथा भृङ्गिणो गणस्य सूक्ष्मतरं शिखाग्रं कर्षन् । पित्रोर्जननीजनकयोः प्रमदाय हर्षाय बभूव । क्रियाग्रहणात्संप्रदानत्वम् ॥ ४४ ॥

 एको नव द्वौ दश पञ्च सप्तेत्यजीगणन्नात्ममुखं प्रसार्य ।
 महेशकण्ठोरगदन्तपङ्क्तिं तदङ्कगः शैशवमौग्ध्यमैशिः ॥४५॥

 एक इति ॥ तस्य पितुरङ्कग उत्सङ्गगत ऐशिः, ईशस्यापत्यमित्यर्थः । 'अत इञ्' (पा. ४।१।९५) इत्यपत्यार्थ इञ् । आत्ममुखं प्रसार्य महेशस्य ये कण्ठोरगाः कण्ठगताः सर्पास्तेषां दन्तपङ्क्तिम् । एको नव द्वौ दश पञ्च सप्तेस्यजीगणत् संख्यातवान् । यतः शैशवमौग्ध्यं बालत्वनिमित्तमूढतां दधानः । अजीगणदिति गणयतेर्लुङ् । 'ई च गणः' (पा. ७।४।९७ ) इत्यभ्यासाकारस्येकारः ॥ ४५ ॥

पाठा०-१ गेहाङ्गण. २ केसरिणः सटाली:. ३ मञ्जु. ४ तदङ्गगः, ५ नुन्नमीतिः; मुग्धमैशिः.