पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३६-४२]
२४९
कुमारबाललीलादिवर्णनम्

शङ्खध्वनिः पाञ्चजन्यशब्दस्तेन मिश्रं यथा स्यात्तथोच्चैः प्रणेदुः । 'उपसर्गादसमासेऽपि-' ( पा. ८।४।१४ ) इति णत्वम् । अथ च दिवौकसां देवानां विमानसंघा व्योम्नि पुष्पप्रचयान्विमुच्य विकीर्य प्रसस्रुः, प्रतस्थिर इत्यर्थः ॥ ३८ ॥

 इत्थं महेशाद्रिसुतासुतस्य जन्मोत्सवे संमदयांचकार ।
 चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः ॥ ३९ ॥

 इत्थमिति ॥ महेशो हरः । अद्रिसुता पार्वती तस्याः सुतस्य पुत्रस्येत्थमेवंभूते जन्मोत्सवेऽशेषं समस्तं चराचरं स्थावरजंगममेतद्विश्वं जगत् संमदयांचकारोन्मत्तीचकार, उन्मादसाधनैरिति शेषः । परं केवलं तारकस्य तारकासुरस्य श्रीर्लक्ष्मीश्चकम्पे, बिभायेत्यर्थः ॥ ३९ ॥

 ततः कुमारः सुमुदां निदानैः स बाललीलाचरितैर्विचित्रैः ।
 गिरीशगौर्योर्हृदयं जहार मुदे न हृद्या किमु बालकेलिः ॥४०॥

 तत इति ॥ ततोऽनन्तरं स कुमारो विचित्रैरनेकरूपैरत एव सुमुदां सुतरां प्रीतीनां निदानैरादिकारणैः । 'निदानं त्वादिकारणम्' इत्यमरः । बाललीलाचरितैः शिशुक्रीडाचरितैर्गिरीशगौर्योः शिवपार्वत्योः । अभ्यर्हितत्वाद्बह्वचोऽपि पूर्वनिपातः। हृदयं मनो जहार, प्रसादयामासेत्यर्थः । हृद्या मनोहरा बालकेलिर्मुदे न किमु भवति ? किं तु भवत्येवेत्यर्थः ॥ ४०॥

 महेश्वरः शैलसुता च हर्षात्सतर्षमेकेन मुखेन गाढम् ।
 अजातदन्तानि मुखानि सूनोर्मनोहराणि क्रमतश्चचुम्ब ॥४१॥

 महेश्वर इति ॥ महेश्वरो हरः शैलसुता पार्वती च हर्षाद्धेतोः सतर्षं सतृष्णं यथा तथाऽजातदन्तान्यनुद्भूतदशनानि मनोहराणि सूनोः कुमारस्य मुखान्येकेन मुखेन गाढं दृढं यथा तथा क्रमतो यथाक्रमं चुचुम्ब पस्पर्श । अत्र कर्तृद्वयस्य पार्थक्येन क्रियान्वयो विधेयः, अन्यथा द्विवचनापत्तिरिति विवेचनीयम् ॥४१॥

 क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः।
 बालः स लीलाचलनप्रयोगैस्तयोर्मुदं वर्धयति स्म पित्रोः॥४२॥

पाठा०-१ जन्मोत्सवः. २ समुदः. ३ स्वबाललीलाललितैः. ४ अपि.

५ सहर्षम्. ६ वक्राणि. ७ क्रमशः. ८ चुचुम्बे. ९ सलीलम्.