पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
[ सर्गः ११
कुमारसंभवे

 इत्थमिति ॥ गिरिजागिरीशौ मनोभिरामैर्मनोरमैरित्थमेवंभूतैः शिशोः कुमारस्य शैशवस्य बालस्य याः केलयस्तासां वृत्तैश्चरित्रैः । 'वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले' इत्यमरः । मनसो विनोदस्तत्र य एको रसः प्रीतिस्तत्र प्रसक्तावासक्तौ सन्तौ कदाचिदपि दिवानिशमहर्निशं नाविदतां नावबुध्येताम् , अगाधपुत्रोत्सवार्णवमग्नत्वादिति भावः ॥ ४५ ॥

  इति बहुविधं बालक्रीडाविचित्रविचेष्टितं
   ललितललितं सान्द्रानन्दं मनोहरमाचरन् ।
  अलभत परां बुद्धिं षष्ठे दिने नवयौवनं
   स किल सकलं शास्त्रं शस्त्रं विवेद विभुर्यया ॥ ५० ॥

 इतीति ॥ इत्येवंभूतं बहुविधं नानाप्रकारकं ललितललितं ललितप्रकारमतिसुन्दरम् । सान्द्र आनन्दो येन । मनोहरं बालक्रीडाया विचित्रं विचेष्टितं चेष्टाम् ,चरित्रमिति यावत् । आचरन्विदधद्विभुः स कुमारः षष्ठे दिने परामुत्कृष्टां बुद्धिं धिषणां नवयौवनं तारुण्यं चालभत प्राप । यया बुध्या सकलं समस्तं शस्त्रम् , सकलानि शस्त्राणीत्यर्थः । शास्त्रम् , शास्त्राणीत्यर्थः । उभयत्रापि जातावेकवचनम् । विवेद ज्ञातवान् । किलेति प्रसिद्धौ । प्राचीनसत्संस्काराणां किमिवाशक्यमिति भावः । हरिणीच्छन्दः; 'रसयुगहयैन्सॉ म्रॉ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥ ५० ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमारोत्पत्तिर्नामैकादशः सर्गः ॥

-

पाठा०-१ वृद्धिम्. २ विभोरपि.