पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
[ सर्गः १०
कुमारसंभवे

 तत इति ॥ ततोऽनन्तरं ताः कृत्तिकास्तद्गर्भजातं गर्भसामान्यम् । 'जाति- र्जातं च सामान्यम्' इत्यमरः । भयेन व्रीडया च सार्धं सह शरवणे । 'प्रनिरन्तः- शरेक्षु--' (पा. ८।४|५ ) इत्यादिना 'शर' शब्दात् परवन-नकारस्य णत्वम् । 'शरः स्तुते जने बाणे' इति मेदिनी । उत्सृज्य परित्यज्य स्वान्गृहानभिनिर्ययुर्गतवत्यः । 'गृहाः पुंसि च भूम्न्येव' इत्यमरः ॥ ५९ ॥

  ताभिस्तत्रामृतकरकलाकोमलं भासमानं
   तद्विक्षिप्तं क्षणमभिनभोगभमभ्युज्जिहानैः ।
  स्वौस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै-
   'वक्त्रैः षढ्भिः स्मरहरगुरुस्पर्धयेवाजनीव ॥ ६० ॥

 ताभिरिति ॥ ताभिः कृत्तिकाभिस्तत्र शरवणे विक्षिप्तं त्यक्तम् । तथाऽमृत- करकलावञ्चन्द्रकलेव कोमलं मृदु यथा तथा क्षणं भासमानं तद्गर्भजातं कर्तृ । अभिनभोगर्भं नभोगर्भं आकाशमध्य इत्यभिनभोगर्भम् । 'गर्भो भ्रूणेऽर्भके कुक्षौ' इति मेदिनी । अभ्युज्जिहानैरभ्युज्जिहते संमुखमुदयन्ते तानि तैः । 'ओहाङ् गतौ' इत्यतः शानच् । तथा दिनपतिशतं सूर्यशतं स्पर्धन्ते तानि तैः, ततोऽप्यधिकैरि- त्यर्थः । तथाऽमानैरसंख्यैः स्वैस्तेजोभिः । तथा षड्भिर्वक्रैश्च युक्तं स्मरहरगुरो- र्ब्रह्मणः स्पर्धयेर्प्ययेव, 'तव चत्वारि मम षडित्यतस्त्वत्तोऽहमधिकोऽस्मि’इत्येवंभूत- वाग्वादावसरफलकयेत्यर्थः । अजनि, परिप्राप्तमभूदित्यर्थः । 'दीपजन-' (पा. ३।१।६१) इत्यादिना च्लेश्चिण् । 'जनिवध्योश्च' (पा. ७।३।३५) इति वृद्धि- निषेधः । अत्र तेजसां षण्णां वक्त्राणां चोत्पादने ब्रह्मस्पर्धाया अहेतुत्वेऽपि तद्धे त्वेन कल्पनाद्धेतूत्प्रेक्षालंकारः । मन्दाक्रान्ता वृत्तम्-'मन्दाक्रान्ता जलधिषड- गैर्भ्भौ नतौ ताद्गुरू चेत्' इति लक्षणात् ॥ ६० ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कुमारोत्पत्तिर्नाम दशमः सर्गः ।

पाठा०-१ निक्षिप्तम्. २ तैः. ३ दिनकर. ४ वक्रम्. ५ स्मरहरशिरःस्पर्धयेव प्रपेदे.