पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५३-५९]
२३५
हरतेजसा कृत्तिकापरितापजननम्

पमवापुः । विषाम्बुधिमग्नत्वे यादृशः परितापो भवति तादृशो रौद्रतेजोधारणे जात इति भावः ॥ ५५॥

  अक्षमा दुर्वहं वोढुमम्बुनो बहिरातुराः ।
  अग्निं ज्वलन्तमन्तस्ता दधाना इव निर्ययुः ॥ ५६ ॥

 अक्षमा इति ॥ दुर्वहं दुर्धरं तद्धाम वोढुमक्षमा अत एवातुरा व्याकुलास्ताः कृत्तिकाः । अन्तर्मध्ये ज्वलन्तमग्निमिव दधानाः सत्योऽम्बुनो जलाद्वहिर्निर्ययुः, निर्जग्मुरित्यर्थः । अत्र धामन्यग्नित्वेनोत्प्रेक्षणादुत्प्रेक्षा ॥ ५६ ॥

  अमोघं शांभवं बीजं सद्यो नद्योज्झितं महत् ।
  तासामभ्युदरं दीप्तं स्थितं गर्भत्वमागमत् ।। ५७ ॥

 अमोघमिति ॥ नद्या गङ्गया सद्य उज्झितमत एव तासां कृत्तिकाना- मभ्युदरं दीप्तं सत् स्थितममोघं सफलं महच्छांभवं बीजं गर्भत्वमागमत् , गर्भी- भूतमित्यर्थः ॥ ५७ ॥

  सुज्ञा विज्ञाय ता गर्भभूतं तद्वोढुमक्षमाः ।
  विपादमदधुः सद्यो गाढं भाँर्तृभिया ह्रिया ॥ ५८ ॥

 सुज्ञा इति ॥ सुज्ञाश्चतुरा अत एव गर्भभूतं तद्वीर्यं विज्ञायापि वोढुमक्षमा असमर्थाः, तस्यातिशयप्रज्वलितत्वादिति भावः । ताः कृत्तिका भर्तुर्भिया भयेन । यदि न धरित्यामस्तदानुचितं, नो चेच्छरीरदाह इति भयेनेत्यर्थः । ह्रिया लज्जया । एवंविधा इमाः याभिर्भर्तृवीर्यमपि न धृतमिति लोकप्रवादजन्मनेत्यर्थः । सद्यो गाढं विषादं खेदमदधुर्धृतवत्यः ॥ ५८ ॥

  ततः शरवणे सार्धं भयेन व्रीडया च ताः ।
  तद्गर्भजातमुत्सृज्य स्वान्गृहानभिनिर्ययुः ॥ ५९ ॥

पाठा०-१ दुर्धरम्. २ अग्निं ज्वलन्तमन्तःस्थं दधाना इव निर्ययुः; निर्ययुः सहिताः शीघ्रं कृत्तिका विस्मयान्विताः. ३ नद्यां स्थितम्. ४ तीव्रम्. ५ गर्भीभूतम्. ६ आगमम्. ७ भर्तृभयात्. ८ अकाममरणं जातमकाण्डं भाविनोऽर्थतः । संभूया- न्योन्यमात्मानं शुशुचुस्तास्तदाविलम् ॥ (१ अकाण्डे. २ शुश्रुवुः.) ९ शापभयेन.

१० सह. ११ ताः. १२ अभितो ययुः; अभि ता ययुः.